This is from सङ्क्षेपशारीरकम् of श्रीसर्वज्ञात्मा .
यथा ; निरवद्यचक्षुरुदया - अदुष्टकरणजन्यापि ; भर्च्छुविषया - पुरुषविशेषविषया ; धिषणा - बुद्धिः - ज्ञानं ; पुरुषापराधमलिना - 'मृतो भर्च्छुः तस्यायं प्रेत' - इत्यादिविपरीतनिश्चयादिप्रतिबद्धा सती ; फलाय - आनन्दादिजनिका ; न ; भवति । तथा ; श्रुतिसम्भवा - महावाक्यजन्यापि - अदुष्टकरणजन्यापि ; आत्मनि - आत्मविषया ; धीः - ब्रह्मात्मैक्यधीः ; पुरुषापराधमलिना सती - 'न ब्रह्मास्ति न वाहं ब्रह्म' इत्याद्यसम्भावनया 'जीव एवाहं परिच्छिन्न' इत्यादिविपरीतभावनया वा प्रतिबद्धा ; फलाय - मोक्षप्रदा ; न ; भवति ।
भर्च्छु - राज्ञः कस्यचिन्मन्त्री आसीत् । तस्य नाम भर्च्छुः । स राज्ञः प्रियः । इतरे मन्त्रिणस्तद्द्वेषात् तं देशान्तरं नीत्वा राज्ञे मृतो भर्च्छुः इत्यवदन् । कदाचित् पुनर्दृष्टेऽपि तस्मिन् भर्च्छौ प्रेतोयं तस्येति मत्त्वा राज्ञो भीतिरेव जाता ।
See these scanned pages.