विधेर्यथैव संकल्पो मुखतां प्रतिपद्यते ।
प्रधानस्य प्रबन्धस्य तथा प्रस्तावना मता
1. अर्थस्य प्रतिपाद्यस्य तीर्थ प्रस्तावनता मता ।' इति
सूत्रधारों नटी ब्रूते मार्ष वापि विदूषकम् ।
स्वकार्य प्रस्तुताक्षेधि चित्रोक्त्या यत्तदामुखम् ।
प्रस्तावना वा। ...
इति रूपकादौ प्रस्तावना, आमुखमिति वस्तुनो निर्देश उच्यते प्रेक्षकाणामाभिमुखीकरणार्थम्। व्याकरणे तथा प्रस्तावना नाम काचित् न दृष्टा श्रुता वा।
व्याकरणे तावत् -
"संज्ञा च परिभाषा च विर्धिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥"
सूत्राणां व्याकरणे प्रवृत्तिविषय़ः संगृहीतः।
सूत्रम्, वृत्तिः, अनुवृत्तिरिति सूत्राणामन्वयक्रमः प्राचीनैरादृतः। एतदतिरिच्य काचन प्रस्तावनानामकग्रन्थो न मया दृष्टः।
To view this discussion on the web visit https://groups.google.com/d/msg/samskrita/-/fUq6bsGdABYJ.
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.
> सूत्राणां अन्वयार्थस्य विषये किञ्चिन्मार्गदर्शनं प्राप्यते ?
प्राप्यते । सन्ति व्याख्याश्च वृत्तयश्च । अन्वयः वृत्तौ प्राप्यते । वृत्तिषु प्राथमिका काशिकावृत्ति: ।
> "वृद्धिरादैच्" अस्मिन् प्रथमे सूत्रे आत् = "आ" इति एकः वर्णः एव
> ज्ञातव्यः अथवा ऐच् = "ऐ"-वर्णतः "च्"-पर्यन्तौ द्वौ वर्णौ शिवसूत्रेभ्यः
> ज्ञातव्यौ एतद्विधं किञ्चित् ...
एतद्विधं तु काशिकायां नास्ति । "आदिरन्त्येन सहेता " सूत्रस्य वृत्तौ अस्ति एतद्वर्णनम् - शिवसूत्राभ्यां कथं भवन्ति "ऐच्"आदयः प्रत्याहारा: । तस्मात् एकेकस्य सूत्रस्य वृत्तौ "ऐच्"="ऐ औ" इति लेखनं व्यवहार्यं न । एतद्विधं विवरणं छात्राणां सुखबोधार्थं कतिपयसूत्रार्थम् एव दत्तं सिद्धान्तकौमुद्याम् । तत्रापि बालमनोरमा टीका सुलभा ।
ज्ञापयामि सविनयो धनञ्जयः ।
From: अभ्यंकरकुलोत्पन्नः श्रीपादः <sanskr...@gmail.com>
To:Sent: Monday, January 30, 2012 8:28 AMSubject: अस्ति काचित् प्रस्तावना अष्टाध्याय्याः ?
--
You received this message because you are subscribed to the Google Groups "samskrita" group.
Incidentally the work has no Magala Sholka as well. I don't know if it is mandatory for shastric work to have a preamble.
परस्य किंचित्।
किं सेव्यते सुमनसां मनसापि गन्धःकस्तूरिकाजननशक्तिभृता मृगेण?