A sloka on Saraswati

20 views
Skip to first unread message

shankara

unread,
May 19, 2012, 11:08:11 AM5/19/12
to sams...@googlegroups.com
Pranams to all,

I give below a subhashita (from Subhashitavali of Vallabhadeva). I request the learned members of this group to explain the meaning of this subhashita.

०९३१-१ तापापहे सहृदये रुचिरे प्रबुद्धे
०९३१-२ मित्रानुरागनिरते धृतसद्गुणौघे  ।
०९३१-३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-
०९३१-४ युक्तं तवेह कमले कमले स्थितिर्यत् ॥
 
regards
shankara

Hnbhat B.R.

unread,
May 19, 2012, 1:11:23 PM5/19/12
to sams...@googlegroups.com

०९३१-१ तापापहे सहृदये रुचिरे प्रबुद्धे
०९३१-२ मित्रानुरागनिरते धृतसद्गुणौघे  ।
०९३१-३ स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्-
०९३१-४ युक्तं तवेह कमले कमले स्थितिर्यत् ॥


It seems to be containing simple अभङ्गश्लेष  in each of the words in the first three पाद-s which makes the verse a कमल also. All the adjectives are applicable equally to the lotus and the लक्ष्मी (in the सप्तमी and प्रथमासम्बुद्धि up to the first half.) making a उपमा between लक्ष्मी, and कमल this verse, and possibly अभेदरूपक between कमल and the verse. The word by word interpretation would be like this for each of the words. 

१. तापमपहन्यादिति इति तापापापहा - the one who/would relieve the sufferings/heat, तत्सम्बुद्धौ . तापापहे। 
[तापापहम्  - तापहरम्, कमलम्, तस्मिन् - इति कमलविशेषणम्।]

२. सहृदयम् - समानं हृदयं यस्या सा - तत्सम्बुद्धौ - सहृदये, 
हृदयेन सह वर्तते इति सहृदयम् - अन्तर्भागसहितम्, तस्मिन्निति कमलविशेषणम्-

३. रुचिरे = मनोहरे - सम्बुद्धिः, पद्मविशेषणं च 
४. प्रबुद्धे = प्रकृष्टा बुद्धिर्यस्याः सा, तत्सम्बुद्धौ - प्रबुद्धे इति लक्ष्मीविशेषणम्,
    प्रबुद्धम् - विकसितमिति पद्मविशेषणम्- तस्मिन् विकसिते।
५. मित्रानुरागनिरते - मित्राणाम् =स्वभक्तानाम्, अनुरागे निरता - बद्धादरा, इति लक्ष्मी-विशेषणम्\
     मित्रे = सूर्ये, अनुरागे - प्रेमणि, निरतम् - सत्नतमुद्यतम् इति पद्मविशेषणम्, सूर्यस्य पद्मबान्धवत्वप्रसिद्धेः। तस्मिन्; 
६. धृतसद्गुणौघे  = धृताः सद्गुणानाम् - दयासौशील्यादीनाम् इति लक्ष्मीपक्षे, रुचिरत्व-सौगन्ध्यादीनामिति च पद्मपक्षे, ओघः - समूहः, यस्याः सा, यस्मिन् तत् इति उभयत्राप्यविशेषेणान्वयः।  लक्ष्मीपक्षे, सम्बुद्धिः, पद्मपक्षे सप्तमी।

एवंभूते 
स्वाङ्गप्रदानपरितोषितषट्पदेस्मिन्- कमले -
स्वस्य - अङ्गानि - पदानि इति श्लोकपक्षे -  तस्य प्रदानेन, परिषोषितानि - सहृदयपरितोषकानि, षट् पदानि - उपरि व्याख्यातानि, यस्मिन् तत् इति अस्मिन् इति एतत्पद्यविशेषण्म्।
स्वाङ्गस्य - अन्तर्भागस्य, प्रदानेन - मधुपानार्थं प्रदानेन, परितोषितानि - आमोदितानि, षट्पदाः - भ्रमराः, येन तस्मिन् - इति कमलविशेषणम्।

"कमला श्रीहरिप्रिया" इति कोशात्, कमलशब्दस्य प्रथमस्य लक्ष्मीसम्बुद्धिपरत्वम्, द्वितीये पद्मपरत्वात् सप्तमी। अस्मिन्निति श्लोकेनाभेदरूपकार्थम्। लक्ष्म्याः पद्मालयत्वात्, "लक्ष्मीः पद्मालया पद्मा:" इति कोशः। तस्य कमले पद्मे स्थितिः प्रसिद्धा, अभेदरूपकेन अत्र स्थितिः प्रार्थ्यते। युक्ता = उचिता स्यादिति। युक्तत्वं च, कमलस्य लक्ष्म्याः च तुल्यगुणयुक्तत्वात्, अनुरूपयोरेव संगतिः एवं रूप्यते। 

इह अस्मिन् कमले इति रूपकनिर्वाहार्थम्, तव स्थितिः [इति] यत्, तद् युक्तं स्यात्। it would be only proper that your seat in this lotus here (in the form of this verse) for you (to be called पद्मालया).

Even without without सम्बुद्धि, it would be fine. All the adjectives could be equally applied to the verse and कमल the lotus also. 

In short, the poet exaggerates the seat of कमल for लक्ष्मीः, because of her being seated in this verse in the (beauty of the six words). This is the basis of the description. It would be difficult to give English translation word for word. Hope the interpretation in Sanskrit is self explanatory and clear in itself.

Any more suggestions are welcome for a better interpretation and improvement of this. The only grammatical problem in the first adjective is तापापहे - which is not usually recognized by Panini. under the two rules, relating to the verb हन्. " आशिषि हनः" "अपे च क्लेशतमसोः (3-2-49,50). The second restricts the formation to क्लेशापह and तमोपह only following the two words in the सूत्र. By generalizing the suffix to other verbs अन्यत्रापि दृश्यत इति। अन्येष्वप्युपपदेषु अन्येभ्योऽपि धातुभ्यो डो दृश्यते इत्यर्थः। according to  बालमनोरमा (under 3-2-48).

With regards and thanks for presenting a good verse.


 
--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


shankara

unread,
May 19, 2012, 9:33:56 PM5/19/12
to sams...@googlegroups.com
Dr Bhat Sir,

Namaste!

Thank you very much for the detailed and lucid explanation.
I would also like to know the name of the poet.
 
regards
shankara

From: Hnbhat B.R. <hnbh...@gmail.com>
To: sams...@googlegroups.com
Sent: Saturday, 19 May 2012 10:41 PM
Subject: Re: [Samskrita] A sloka on Saraswati

--
You received this message because you are subscribed to the Google Groups "samskrita" group.
To post to this group, send email to sams...@googlegroups.com.
To unsubscribe from this group, send email to samskrita+...@googlegroups.com.
For more options, visit this group at http://groups.google.com/group/samskrita?hl=en.


Hnbhat B.R.

unread,
May 19, 2012, 10:20:43 PM5/19/12
to sams...@googlegroups.com
2012/5/20 shankara <shanka...@yahoo.com>

Dr Bhat Sir,

Namaste!

Thank you very much for the detailed and lucid explanation.
I would also like to know the name of the poet.
 
regards
shankara


I think you should find it in Subhashitavali itself. It may not be any popular poet, if not given by him. Unless he gives the name, it is difficult to find it.

श्रीमल्ललितालालितः

unread,
May 21, 2012, 7:57:07 AM5/21/12
to sams...@googlegroups.com
मम तु मते 
स्वाङ्गप्रदानपरितोषितषट्पदे इति लक्ष्मीपरं पदम् । अस्मिन्निति तु कमलेऽन्वेति ।
स्वाङ्गेति । स्वाङ्गप्रदानेन परितोषितः षट्पदो विष्णुर्यया सा स्वाङ्गप्रदानपरितोषितषट्पदा । विष्णोः षट्पदत्वं तु श्यामत्वमोहितत्वाभ्याम् । यथा भ्रमरः श्यामः कमले मोहितश्च , तथा विष्णुरपि श्यामः कमलायां लक्ष्म्यां मोहितश्च । इति ।
अस्मिन् इतिपदं न लक्ष्मीपरेण स्वाङ्गेतिपदेनान्वेति । किन्तु , पद्मपरेण कमलपदेेनैव ।
अन्यत् तु न विचारितं विशेषत इति त्यजति

Hnbhat B.R.

unread,
May 21, 2012, 10:11:55 AM5/21/12
to sams...@googlegroups.com

2012/5/21 श्रीमल्ललितालालितः <lalitaa...@gmail.com>

मम तु मते 
स्वाङ्गप्रदानपरितोषितषट्पदे इति लक्ष्मीपरं पदम् । अस्मिन्निति तु कमलेऽन्वेति ।
स्वाङ्गेति । स्वाङ्गप्रदानेन परितोषितः षट्पदो विष्णुर्यया सा स्वाङ्गप्रदानपरितोषितषट्पदा । विष्णोः षट्पदत्वं तु श्यामत्वमोहितत्वाभ्याम् । यथा भ्रमरः श्यामः कमले मोहितश्च , तथा विष्णुरपि श्यामः कमलायां लक्ष्म्यां मोहितश्च । इति ।
अस्मिन् इतिपदं न लक्ष्मीपरेण स्वाङ्गेतिपदेनान्वेति । किन्तु , पद्मपरेण कमलपदेेनैव ।
अन्यत् तु न विचारितं विशेषत इति त्यजति


धन्यवादाः।

"स्वाङ्गं हरेः पुलकभूषणमाश्रयन्ती" इति लक्ष्मीरेव श्रीहरेरङ्गमाश्रयति, इति वैष्णवाचार्याः कुलशेखराः।

"साधारोदधिमन्थोत्थां लक्ष्मीं वक्षसि कुर्वता । तेनाबलानामस्माकं स्त्रीत्वमेवोपपादितम् ॥१६॥"  इति च दशावतारचरिते,

"लक्ष्मीं वक्षसि कौस्तुभस्तबकिनि प्रेम्णा करोत्य् अच्युतः।" इति च श्रीहरेरङ्गमेवाश्रयः लक्ष्म्यै दत्तम्  इति वैष्णवानां प्रसिद्धिः।

श्रीमल्ललितालालितः

unread,
May 21, 2012, 12:19:53 PM5/21/12
to sams...@googlegroups.com



2012/5/21 Hnbhat B.R. <hnbh...@gmail.com>

लक्ष्मीरेव श्रीहरेरङ्गमाश्रयति

भर्त्तरि स्वाङ्गसमर्पणेन संतोषोत्पादनं तु स्त्रीमात्रसाधारणमिति ततोऽपि प्रसिद्धम् । अत एव न मदीयव्याख्याने कापि विप्रतिपत्तिः ।
Reply all
Reply to author
Forward
0 new messages