वैदिक-नववैशेषिकयोः प्रपञ्चस्य विषये मतभेदः।

24 views
Skip to first unread message

विश्वासो वासुकेयः / Vishvas Vasuki

unread,
Aug 5, 2012, 9:41:23 PM8/5/12
to saMskRRita-sandesha-shreNiH, bvpar...@googlegroups.com
एतत् बहुमहत्त्वपूर्णम् भाषणम् अश्वत्थनारायणावधानिभिः मत्तूरुग्रामवासिभिः । तत्र तैः तीक्ष्णमतिभिः वैदिक-वैदान्तिक-आधुनिक-सामाजिक-इत्येतेषाम् प्रपञ्चस्य विषये चिन्तने च व्यवहारे मतभेदाः स्पष्टतया प्रतिपादिताः। युष्माकम् मतः कः अपि भवतु नाम - भिन्नविचाराणाम् स्पष्टम् उपस्थापनम् युष्मभ्यम् रोचेत । अतः रामानुजवर्येण प्रकाशकेन आयोजकेन कृतोपकाराः स्मः।

मम तु आधुनिके वैज्ञानिके मते निष्ठा अस्ति, यद्यपि वर्तते श्रद्धा नैकेषु वैदिकपौराणिक-आचारपद्धतिषु च तेषाम् उपयोगे सुसङ्कल्पजनन-मनोबुद्धिनियन्त्रणादिषु त्रिवर्गपुरुषार्थसाधने विद्यमानेषु अङ्गेषु। 'काणादम् पाणीनीयम् च सर्वशास्त्रोपकारकम्' इति उक्तिः श्रुता । यदि संप्रतिः परमाणुप्राधान्यदाता काणादः अवसिष्यत् तस्यापि मतः तथैव अभविष्यत् प्रायः। अतः एषा विचारधारा नववैशेषिकदर्शणम् इति नाम्नि योग्या स्यात् । अल्पमतिना मया यदि किमपि असमीचीनम् उक्तम्, क्षमया शोधम् प्रकाशयन्तु।

--
Vishvas / विश्वासः


विश्वासो वासुकेयः / Vishvas Vasuki

unread,
Aug 6, 2012, 1:18:12 AM8/6/12
to saMskRRita-sandesha-shreNiH, bvpar...@googlegroups.com
सूचितो ऽस्मि यत् केभ्यः चित् चलच्चित्रम् तस्मिन् सङ्केते न दृश्यते इति।

http://ihg.cdacb.in:8080/eSikshak/servlet/usermanagement.ShowCourses?Langauge=English ( -> Introduction to Vedic Processing -> Vedanga -> Topic04 Apastamba paribhAShAsUtra -> video lectures -> Part6_Social dimension, eligibility) इत्यत्र सूचीकृतम् अस्ति तत् चित्रम् । (मूलपृष्टम् तु http://ihg.cdacb.in:8080/eSikshak/ इति । तत्र 'स्वागतम् । अन्तर्जालाधारित-निःशुल्क-संस्कृत-पठ्यक्रमः संसाधनानि च । ' इति सन्देशस्य नोदनेन अपि प्रवेशः साध्यः ।)

2012/8/5 विश्वासो वासुकेयः / Vishvas Vasuki <vish...@samskritabharatiusa.org>

विश्वासो वासुकेयः

unread,
Oct 9, 2016, 7:22:05 PM10/9/16
to भारतीयविद्वत्परिषत्, sams...@googlegroups.com, vish...@samskritabharatiusa.org, Ramanujachar P
+ रामानुजाचार्यः पराङ्कुशाचार्यसूनुः

आर्य, न वै लभ्यन्ते तन्य् उत्तमानि चलच्चित्राण्य् अन्तर्जाले http://ihg.cdacb.in:8080/eSikshak/ इत्यत्र - तल्लाभः क्व शक्यः? विशिष्य तत्र श्रौतकर्मणाम् उत्तमः परिचय आसीदिति शङ्के।



रविवार, 5 अगस्त 2012 को 10:18:12 अपर UTC-7 को, विश्वासो वासुकेयः / Vishvas Vasuki ने लिखा:
Reply all
Reply to author
Forward
0 new messages