Verse 21
अधोक्षजः - अक्षशब्देनेन्द्रियमुच्यते । अधइन्द्रियं पादः । ताभ्यां जातः अधोक्षजह ।
I am not able to understand this part in tikasarvasva on amarakosha.
Verse 22:
श्रीवत्सलाञ्छनः - वक्षःस्थले महापुरूषलक्षणं श्वेतरोमावर्तविशेषः श्रीवत्सः । स एव लाञ्छनमस्येति श्रीवत्सलाञ्छनः ।
विधुः - असुरान् विध्यतीति विधुः ।
वसुदेवः - वसुभिर्दीव्यतीतिवसुदेवः ।
आनकदुन्दुभिः - अस्मिन् जाते आनकाः पटहा दुन्दुभयश्च वादिता इत्यानकदुन्दुभिः ।
Verse 24:
तालाङ्कः - तालो वृक्षविशेषः । स एव अङ्कः चिह्नमस्येति तालाङ्कः ।
सङ्कर्षणः - "गर्भसंकर्षणात् सोऽथ लोके संकर्षणः स्मृतः" इति हरिवंशः । Could somebody please clarify the context ?
Verse 25:
प्रद्युम्नः - प्रकृष्टं द्युम्नं बलमस्येति प्रद्युम्नः ।
कन्दर्पः - कं ब्रह्माणं दर्पयतीति कन्दर्पः ।
Verse 26:
शम्बरः - "क्लीबं तु सम्बरं नीरे बौद्धव्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥" इति दन्त्यादौ रभसोऽपि ।
"शम्बरो हरिणे दैत्ये शम्बरं सलिले स्मृतम् ।" इति तालव्यादावजयः ।
तदा च देवानां शं कल्याणं वृणातीति शम्बरः ।
Verse 27:
ब्रह्मसूः - ब्रह्म तपः सुवति प्रेरयतीति ब्रहमसूः ।
विश्वकेतुः - विश्वव्यापी केतुर्द्युतिरस्येति विश्वकेतुः ।
लक्ष्मीः - नीतिशालिनं पश्यतीति लक्ष्मीः । लक्ष दर्शनाङ्कनयोः । लक्षेर्मुट् च (उणादि ३.१६१) इति ईप्रत्ययः ।
Verse 28:
पाञ्चजन्यः - समुद्रे तिमिरूपचारी पञ्चजनो नामासुर आसीत् । तदस्थिजत्वात् पाञ्चजन्यः ।
कौमोदकी - कौ पृथिव्यां मोदत इति कौमोदकी ।
कौस्तुभः - स्तुभ स्तम्भे । कोः स्तोभक इति कुस्तुभो विष्णुः । इगुपधात् कः । अस्माच्छैषिकोऽण् ।
Verse 29:
गरुत्मान् - गरुत् पक्षोऽस्यास्तीति गरुत्मान् ।
गरुडः - गरं विषं हन्तीति गरुडः । पृषोदरादिः । डप्रत्ययः डकार उकारश्च ।
Verse 30:
शम्भुः - शं कल्याणं भूतवान् लब्धवानिति शम्भुः ।
शर्वः - प्रलये शृणातीति शर्वः । शृ हिंसायाम् । (dirgha RkAra)
Dr. Dhaval Patel