> अधोस्थितम् सायिवर्यप्रस्तुतम् विस्तारपत्त्रम् संस्कृतव्याकरणपिपठिषुभ्यः
> यथा उपयोगाय अस्ति, तथैव शब्दज्ञानाय किमपि करणीयम् इति सङ्कल्पः मयि जातः।
> अतः पुरा कस्मिन् चित् सन्देशे प्राप्तम् धातुपाठविस्तारपत्त्रम् आधारीकृत्य,
> शोधित्वा ईषत् मया एतत्<
https://docs.google.com/spreadsheet/ccc?key=0Al_QBT-hoqqVdC1BR0dSbTFw...>विस्तारपत्त्रम् (spreadsheet) सृजितम् । अस्य उपयोगः एवम् दृश्यते -
> १] भिन्नक्रमेषु वीक्षणम् सुलभम् - उदाहरणाय गण-धातु-क्रमशः वा अर्थक्रमशः वा
> प्रारम्भाक्षरक्रमशः। अन्यशब्दैः sorting तथा filtering सुलभम् तस्मिन् ।
> २] शब्दज्ञानवर्धनाय (के धातवः मया सावधानतया स्मर्तव्याः?) तथा
> शब्दज्ञानमितिज्ञानाय (कति धातवः ज्ञाताः मया?) अपि सौलभ्यम् कल्पयति। अस्मिन्
> विस्तारपत्त्रे मया संयुक्ताः "अर्थसमूहः सामान्योपसर्गाः प्रसिद्धता
> कृदन्त-प्रासिद्ध्यम् प्रसिद्धिः" नामयुक्ताः श्रेण्यः (columns)।
> तदुपयोगेन भिन्नानाम् प्रसिद्धानाम् धातूनाम् अभिज्ञानम् भूयात् इति आषा ।
> एतावत् बहुप्रगतिः न कृता। तथापि प्रत्ययज्ञानम् च प्रातिपदिक<https://docs.google.com/spreadsheet/ccc?key=0Al_QBT-hoqqVdGIzM21NaGhX...>ज्ञानम्
> एवमेव वर्धनम् अमरकोश-धातुपाठादीनाम् स्मरणात् सुलभतरम् स्यात्, इति ऊहः
> वर्तते । प्राचीने काले नासीत् खलु सङ्गणको वा विस्तारपत्त्राणि! अयम् प्रयोगः
> सफलः भविष्यतीति न वक्तुम् शक्नोमि, परन्तु भवत्सु यदि केचित् अनुकर्तुम्
> इच्छन्ति तेषाम् स्वागतम् - सुलभतया विस्तारपत्रयोः अनुकरणम् (copying),
> परिवर्तनम् शक्यम्। (अहम् अपि स्वछन्दानुसारम् उपयोगाय सायीवर्यस्य
> विस्तारपत्त्रस्य अनुकरणम् कृतवान् ।) तथा कुर्वन्ति चेत् मे ऽपि सूचयन्तु -
> अहमपि युष्माकम् विस्तारपत्त्रशैल्या च तत्-स्थितैः प्रसिद्धि-अर्थादिषु
> सूचनाभिः विचारैः अनुगृहीतो भवेयम् ।
> --
> Vishvas /विश्वासः
> ---------- Forwarded message ----------
> From: Vishvas Vasuki <vishvas.vas...@gmail.com>
> Date: Sat, Aug 11, 2012 at 4:45 PM
> Subject: Fwd: Consolidated Ashtadhyayi Index with links to commentaries
> I didn't type anything new, but just made existing ones more usable. I've
> linked each sutra to two commentaries: Ajit Krishnan's and
> AVG-sanskrit.org. I have also published the resulting Excel spreadsheet to
> Google Docs as well.
> https://docs.google.com/**spreadsheet/ccc?key=**
> 0Aocnp1cX4xG8dGh5Q0JaX21WYTZ0M**ktsRVQ3NzVON0E<https://docs.google.com/spreadsheet/ccc?key=0Aocnp1cX4xG8dGh5Q0JaX21W...>
> --
> You received this message because you are subscribed to the Google Groups
> "samskrita" group.
> To post to this group, send email to samskrita@googlegroups.com.
> To unsubscribe from this group, send email to
> samskrita+unsubscribe@googlegroups.com.
> For more options, visit this group at
> http://groups.google.com/group/samskrita?hl=en.