On Thu, Aug 9, 2012 at 9:45 AM, Ganapathy
<ganapa...@gmail.com> wrote:
कुण्ठीकरोतु विपदं मम कुञ्चितभ्रूचापान्वितः श्रितविदेहभवानुरागः।
रक्षोपकारमनिशं जनयञ्जगत्यां कामाक्षि राम इव ते करुणाकटाक्षः ॥
रामपक्षे -
कुञ्चितभ्रूश्चासौ चापान्वितश्च कुञ्चितभ्रूचापान्वितः ।
श्रितायां विदेहभवायां - जनकजायामनुरागो यस्य सः श्रितविदेहभवानुरागः । जनको हि विदेहः प्रसिद्धः । अत एव च सीता वैदेहीत्यपि ख्याता ।
रक्षोऽपकारः - रक्षसामपकारः तम् । विभीषणस्य रक्षःपदेन ग्रहणमत्र युक्तं न भाति । किन्तु राक्षसमात्रस्यात्र ग्रहणम् ।
अपि च देवीकटाक्षपक्षे वक्ष्यमाणो रक्षात्मक उपकारोऽप्यत्राविरुद्धः ।
देवीकटाक्षपक्षे -
कुञ्चितभ्रूरूपचापयुक्तत्वम् ।
श्रितो यो विदेहः - कामः तस्माद्भवः - तदुत्थोऽनुरागो यस्य सः । अथवा - श्रितो कामजन्योऽनुरागो येन सः ।
रक्षोपकारः - रक्षात्मकोपकारविशेषः तम् ।