Significance In The Use Of Right Hand-----A Reference In The Scriptures

4 views
Skip to first unread message

iragavarapu narasimhacharya

unread,
Dec 30, 2010, 7:47:23 PM12/30/10
to bvpar...@googlegroups.com
प्रिय विद्वत्सुहृदः,
प्रणम्य। अत्रेदमवधार्यताम्। "Significance Of The Right
Hand----------A Reference In The Scriptures"
वयमस्माकं दक्षिणहस्तमुपयुज्य अनेकानि कार्याणि कुर्मः। देवस्य पूजां
कुर्मः। जलतर्पणं कुर्मः।
वस्त्रादिकं दद्मः। काष्ठं खड्गेन खण्डयामः। भॊजनं कुर्मः।पशून् ताडयामः।
वस्तूनि धारयामः। जपामः। एवं बहूनि कार्याणि वयं दक्षिणहस्तमुपयुज्य
कुर्मः। एतत्कार्येषु दक्षिणहस्तस्य प्रामुख्यं
किम्? वेदवाङ्मये एवमस्ति।
श्रुतिः॥"ब्रध्नस्य विष्टवं चतुस्त्रिग्ंश इति दक्षिणतोसौ
वा आदित्यो ब्रध्नस्य विष्टवं ब्रह्मवर्चसमेव दक्षि
णतो धत्ते तस्मा द्दक्षिणोर्धो ब्रह्मवर्चसितरः"
(कृ.य.सं.५.कां.३.प्र.३.अनु.)
(तात्पर्यम्) "ब्रध्नस्य विष्टवं" नाम "आदित्य" इत्यर्थः। दक्षिणस्यां
दिशि आदित्यसम्बन्धिना मन्त्रेण इष्टकोपधानक्रियया दक्षिणहस्तः
अधिकब्रह्मवर्चसा सम्पन्नोऽभवत्। ब्रह्मवर्चसरूपं वैदिक
होमपूजादिकं दक्षिणहस्तेन कुर्वन्तीति कारणेन शरीरे दक्षिणभागो
अधिकब्रह्मवर्चस्संपन्न आसीत्।अत एव आशीर्वादादि सत्कर्मसु दक्षिणहस्तस्य
प्राधान्यं दीयते।
वामहस्तेन भोजनं नास्तीति श्रुतिरेवं वदति।
श्रुतिः॥"तपो नवदश इत्युत्तरत स्तस्मा त्सव्यो
हस्तयो स्तपस्वितरः" (कृ.य.सं.५.कां.३.प्र.४.अनु.)
(तात्पर्यम्) अक्षयास्तोमीयेष्टकामन्त्रेषु "तपो नवदशः"इति
तपश्शब्दसहितमन्त्रेण उत्तरस्यां दिशि
इष्टकोपधानं कुर्वन्ति। अतः हस्तयोर्द्वयॊः उत्तरस्यां दिशि विद्यमानस्य
वामहस्तस्य दक्षिणहस्तस्येव भोजनशक्तिराहित्येन तपस्वित्वात् "तपो
नानशनात्पर"मिति श्रुत्या "अनशनस्य"(भोजनाभावः) तपोरूपत्वेन,वामहस्तस्य
तल्लक्षण(भोजनाभाव) सत्त्वेन वामहस्तेन
भोजनं नास्तीति निश्चीयते।
वामहस्तेन तु भिक्षापात्रधारणं वक्ष्यमाणश्रुत्या विधीयते।
श्रुतिः॥"संभरण स्त्रयोविग्ंश इत्युत्तरत स्तस्मा त्सव्यो हस्तयो स्संभार्यतरः॥"
(कृ.य.सं.५.कां.३.प्र.४.अनु.)
(तात्पर्यम्) अनेन मन्त्रेण उत्तरस्यां दिशि "अक्षयास्तोमीयेष्टकोपधानं
कुर्वन्ति। अतः उत्तरदिग्वर्ती
वामहस्तः संभार्यतरो भवति।(अतिशयेन भिक्षापात्रधारी भवति) उपनयनकाले
"भिक्षाचर्यं चर"इति गुरोरादेशानुसारेण भिक्षाचरणं विहितमस्ति। अतः
भिक्षापात्रं वामहस्तेन धारयेदिति भावः।
अभिवन्द्य,
ऐएन्नेस्साचार्यः।

dashrathlal vedia

unread,
Feb 18, 2011, 10:04:02 AM2/18/11
to bvpar...@googlegroups.com
  
Dear Scholar,
       You have nicely and properly discussed the point.


 with regards,
Dr.D.G.Vedia

2010/12/31 iragavarapu narasimhacharya <insac...@gmail.com>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)



--
Thanks & Regards,

Dr.D.G.Vedia

iragavarapu narasimhacharya

unread,
Feb 18, 2011, 11:40:46 PM2/18/11
to bvpar...@googlegroups.com
परिषदं प्रणम्य।
महॊदयाः,सप्रणामम्। वेदे यदस्ति तदेवोपस्थापितम्भॊः। न मदीयं किमप्यत्र।
भाषान्तरपरिवर्तनमेव स्वकीयम्। भवादृशैरामॊदित इति मॊदे।
धन्यवादः,
ऐएन्नेस्।

VKG

unread,
Feb 19, 2011, 7:38:26 PM2/19/11
to भारतीयविद्वत्परिषत्
Pranaam.
Nice Reminder.

On Feb 19, 9:40 am, iragavarapu narasimhacharya <insacha...@gmail.com>
wrote:


> परिषदं प्रणम्य।
> महॊदयाः,सप्रणामम्। वेदे यदस्ति तदेवोपस्थापितम्भॊः। न मदीयं किमप्यत्र।
> भाषान्तरपरिवर्तनमेव स्वकीयम्। भवादृशैरामॊदित इति मॊदे।
> धन्यवादः,
> ऐएन्नेस्।
>

> On 2/18/11, dashrathlal vedia <d.g.ve...@gmail.com> wrote:
>
> > Dear Scholar,
> >        You have nicely and properly discussed the point.
>
> >  with regards,
> > Dr.D.G.Vedia
>

> > 2010/12/31 iragavarapu narasimhacharya <insacha...@gmail.com>

Reply all
Reply to author
Forward
0 new messages