iragavarapu narasimhacharya
unread,Feb 19, 2011, 2:51:58 AM2/19/11Sign in to reply to author
Sign in to forward
You do not have permission to delete messages in this group
Either email addresses are anonymous for this group or you need the view member email addresses permission to view the original message
to bvparishat
प्रिय विद्वत्सुहृदः,
प्रणम्य।"एकस्स्वादु न भुञ्जीत"अत्रेदमवधार्यताम्भॊः।"ज्ञानेन्द्रियाणां
शिरसः अधस्ताद्विद्यमानत्वे वेदॊक्तं कारणम्।"
श्रुतिः"शिरॊ वा एतद्यज्ञस्य य द्धविर्धानं प्राणा उपरवा हविर्धाने
खायन्ते तस्मा च्छीर्षन्प्राणा
अधस्ता त्खायन्ते तस्मा
दधस्ताच्छीर्ष्णःप्राणाः"॥(कृ.य.सं.६.कां.२.प्र.११.अनु.)
(तात्पर्यम्) यज्ञपुरुषस्य हविर्धान नाम्नी शाला शिरस्स्थानीया।
तच्छालायां "उपरव"नामानि बिलानि यज्ञपुरुष्स्य
ज्ञानेन्द्रियस्थानीयानि।इति॥
हविर्धानं नाम:--यज्ञे प्राग्वंश इति,सदः इति,हविर्धानमिति,अग्नीध्र इति
नामभिः मण्टपानां शाला
चतुष्टयं भवति। हविर्धानशालायां दक्षिणतः सूक्ष्मचक्रसहितं शकटं
ऊर्ध्वभागे निर्मीयते। एवं तस्यामेव शालायां ऊत्तरतः सूक्ष्मशकटं
निर्मीयते। एतानि चक्राणि लॊके बालैः क्रीडितताळफलचक्रैः
उपमीयन्ते।उपरवस्वरूपम्:--हविर्धानशालायां दक्षिणदिग्भागस्य
पश्चिमतःआग्नेय,नैरृति,वायव्य,ईशान्यादिविदिक्षु भूमौ उपरव’नामानि बिलानि
चत्वारि खन्यन्ते। तानि बिलानि बाहुदघ्नानि भवेयुः। बहिःपरिधिः
प्रादेशमात्रं भवेत्। खानितबिलानां मध्ये व्यवधानमपि प्रादेशमात्रमेव
स्यात्। एतद्बिलचतुष्टयस्य अधॊभागेपि एकीकरणं स्यात्।
अर्थात्-एतद्बिलानामधस्ता देकस्माद्बिलादन्यस्य बिलस्य मार्गॊ भवेत्।
हविर्धानशालानिर्माणमेवं क्रियते।
एतद्धविर्धानशाला यज्ञस्य शिरस्स्थानीया। अत्र दक्षिणभागस्थोपरवबिलानि
श्रॊत्र,नासिकादि छिद्रगत (प्राण) इन्द्रियस्थानीयानि।
एतदिन्द्रियस्थानीयान्युपरवबिलानि यज्ञपुरुषस्य शिरस्स्थानीय
हविर्धानशालायां खन्यमानत्वात् सृष्टौ शिरसॊऽधस्ता दर्था
च्छिरःकपालस्याधस्ता
देव प्राणसञ्चारेण ज्ञानेन्द्रियाणि शिरसॊधस्तादेव सन्तीति, उपरि न
सन्तीति वेदः वेदयति।
ज्ञानेन्द्रियाणामन्तरैक्यतां प्रति श्रुतिः:---"संतृणत्ति तस्मा
त्संतृण्णा अन्तरतः प्राणाः"(कृ.य.)
एतदुपरवबिलचतुष्टयस्य अधस्तादन्यॊन्यैक्येन स्थितत्वात् लोकेपि
ज्ञानेन्द्रियाणामन्तरैक्य
मस्तीति वेदः बोधयति।
अस्माकमनुभवोऽप्येवमस्ति।श्रोत्रयोः,कर्णयोः,कण्ठस्य,नासिकारन्ध्रयॊः
चक्षुषोर्मध्ये च अन्तः मार्गोऽस्तीति। वेदोक्तविषयाः लोके दृश्यन्ते।
लोकस्य वेदस्य च मध्ये
स्थितास्संबन्धाः अन्वेषणीयास्सन्ति खलु।"यदिहास्ति तदन्यत्र यन्नेहास्ति
न तत्क्वचित्"
(अनुवर्तते)
अभिवाद्य,
ऐएन्नेस्साचार्य<ऐएन्नेस्साचार्य॒जीमेयिल्.काम्>