’कलना’

23 views
Skip to first unread message

V Subrahmanian

unread,
Jul 22, 2012, 1:43:02 AM7/22/12
to BHARATIYA VIDVAT
नमो नमः

श्रीदक्षिणामूर्तिस्तोत्रे द्वितियश्लोके एवं पठ्यते -

मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । इति । तत्र कलनाशब्दस्य कोऽर्थः इति जिज्ञासा । वी.येस्.आप्टे कोशे ’कालकलना’ इति एकः काव्यपरामर्शः कृतः । तद्विहाय अपि अस्य अर्थं ज्ञातुमुच्छामि ।

सुब्रह्मण्यशर्मा

Hnbhat B.R.

unread,
Jul 22, 2012, 2:15:04 AM7/22/12
to v.subra...@gmail.com, BHARATIYA VIDVAT
श्रीदक्षिणामूर्तिस्तोत्रे द्वितियश्लोके एवं पठ्यते -

मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । इति ।

"कलिः कामधेनुः" इति काव्यरसिकाः।

अत्रैवं व्याख्या -

"मायया = ईश्वराधिष्ठितया, कल्पितौ देशकालौ, तयोः कलना = संबन्धः, तद्वैचित्र्येण चित्रीकृतम् = नानाविधभेदभिन्नतया विभक्तम्; "तं नामरूपाभ्यामेव व्याक्रियत" इति श्रुतेः।"
इति।

दैशिक-कालिक-सम्बन्धेनेयत्ता अनन्तस्य ब्रह्मणः वैचित्र्येण चित्रीकरणमिति तात्पर्यम्। "कलयसि करवालम्" इत्यादिप्रयोगात् कलिः कामधेनुरिति यस्मिन्नर्थे विवक्षा भवति, तस्मिन्नर्थे प्रयोगः। आकलनम्, संकलनम्, इत्यादयः अर्थभेदाः उपसर्गवशात्। उपसर्गं विनापि नानार्थकः अयं धातुः, तन्निष्पान्नश्च कलना-शब्दः। युच्-प्रत्ययान्तः।

 


--
Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
Research Scholar,
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001


V Subrahmanian

unread,
Jul 22, 2012, 3:11:32 AM7/22/12
to BHARATIYA VIDVAT


---------- Forwarded message ----------
From: Iragavarapu Narasimhacharya <insac...@gmail.com>
Date: 2012/7/22
Subject: Re: {भारतीयविद्वत्परिषत्} ’कलना’
To: v.subra...@gmail.com


महोदयाः,
सादरम्प्रणम्य।कलना इत्यस्य वशीभूतत्वं,वशता इति च अर्धद्वयं सर्वशब्दसम्बोधिन्यां स्त्रीलिङ्गे।कलनः इत्यस्य पुंलिङ्गे "वेतस"वृक्ष इत्यर्थः।कलनम्-इत्यस्य नपुंसकलिङ्गे "चिह्नम्"
इत्यर्थः। कलनाशब्दप्रयोगस्त्वेवमस्ति--
श्लो। वन्देऽहं वन्दनीयानां वन्द्यां वाचामधीश्वरीम्।
     कामिताशेषकल्याणकलनाकल्पवल्लिनीम्॥
कलन इत्यस्य आन्ध्रशब्दरत्नाकरे ज्ञानम्,प्राप्तिः, इति अर्थद्वयमस्ति। उक्तश्लोके कल्याणकलना
इत्यस्य "कल्याणप्राप्तौ" इत्यर्थः समीचीनो भवतीति मन्ये। कल्याणप्रापणे कल्पवल्लिनीसदृशी भवति वाग्देवी--इति मे मतिः।
अभिवाद्य,
ऐवियन्।



2012/7/22 V Subrahmanian <v.subra...@gmail.com>

--
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
to subscribe go to the link below and put a request
https://groups.google.com/group/bvparishat/subscribe
To unsubscribe from this group, send email to
bvparishat+...@googlegroups.com


---

Sent via Epic Browser


Reply all
Reply to author
Forward
0 new messages