तिरुप्पावै--------पाशुरम् १४ (२९-१२-२०११ दिनाङ्के) "उङ्गळ् पुळैक्कडै"
अवतारिका:--"स्वयमागत्य सर्वं सखीजनं प्रबोधयाम्य्ह"मित्युक्त्वा निद्राङ्गतां गोपिकां गोदादेवी
प्रबोधयत्यस्मिन् पाशुरे।
तमिळम्:-"उङ्गळ् पुळैक्कडै त्तोट्टत्तु वावियुळ्, शेङ्गळुनीर् वाय् नेगिळ् न्दाम्बल् वाय् कूम्बिनगाण्
शेङ्गर् पोडिक्कूरै वेण्बत्तवत्तवर् तङ्गळ् तिरुक्कोयिल् शङ्गिडुवान् पोतन्दार्
एङ्गळै मुन्न मेळुप्पुवान् वाय् पेशुम्, नङ्गायेळुन्दिराय् नाणादाय् नावुडैयाय्
शङ्गोडु शक्करमेन्दुन्तडक्कैयन् पङ्गयक्कण्णानै पाडेलोरेम्बावाय्॥"
संस्कृतम्:-श्लो।"युष्मद्गृहोपवनमङ्गळदीर्घिकायां सौगन्धिकं विकसितं कुमुदं प्रसुप्तम्।
चूर्णेष्टकाकलितवर्णपटावदातदन्ता स्तपोधनजना स्त्वरिता स्तदीये॥
श्रीमन्दिरे घटयितुं ययुरत्र शङ्खान् पूर्वं न उच्चलयितुं शपथं व्यतानीः।
उत्तिष्ठ, पूर्णरमणि! प्रविमुक्तलज्जे,आध्यम्बविष्णुरसने! ननु,वावदूके!॥
श्रीशङ्खचक्रविलसन्मृदुपाणिपद्मं पद्मायतेक्षणमिमं बहुधोपगातुम्।
ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥"
तात्पर्यम्:-गोदादेवी निद्राङ्गतां गोपकन्यामेवं प्रबोधयति,"भवद्गृहारामे दीर्घिकायां रक्तोत्पलानि
विकसितानि।नीलोत्पलानि मुकुळितानि।काषायवस्त्रधारिणः सन्यासिनः देवालये
आराधनाय गच्छन्ति।"अहमेवाऽगत्य सर्वाः प्रबोधयामी"त्युक्तवती खलु भवती।
भक्ताग्रगण्ये! उत्तिष्ठ।आगच्छ।शङ्खचक्रधारिणं पुण्डरीकनयनं प्रार्थयामः।"इति।
विशेषाः:---शरीरमेव आरामः।कशेरुकमेव दीर्घिका।चैतन्यप्रसरणनाडीमण्डलस्य मार्ग एषा।
नाडीचक्राण्येव पद्मानि।(मूलाधार,स्वाधिष्ठानप्रभृतीनि चक्राणि)।इन्द्रियाण्येव उत्पलानि।
सन्यासिनो नाम प्रपन्नाः।शङ्खो नाम प्रणवः।चक्रं नाम सुदर्शनम्।एतौ भगवत्स्वरूपं
दर्शयतः।पाशुरे "नङ्गाय्,नावुडयाय्"इति सम्बोधनद्वयं गुणप्रपूर्णं अहङ्काररहितं
तिरुप्प्णाळ्वारं स्मारयति।एवं मथिते सति अनेके विशेषाः ज्ञास्यन्ते।