तिरुप्पावै--पाशुरम्----२९-----"शित्तम् शिरुकाले"-----(१३-१-२०१२)------अवधार्यताम्।
तमिळम्--"शित्तम् शिरुकाले वन्दुन्नै च्चेवित्तु, उन् पोत्तामरै यडिये पोत्तुम् पोरुळ् केळाय्
पेत्त मेय् त्तुण्णुम् कुलत्तिल् पिरन्दु, नी कुत्तेव लेङ्गळै कोळ्ळामळ्पोगादु
इत्तैप्परै कोळ्वादन्रुगाण् गोविन्दा,एत्तैक्कु मेळेळु पिरविक्कुमुन्दन्नो
डुत्तोमेयावो मुनक्के नामाट्चेय् वोम् मत्तै नङ्गामङ्गामळ् मात्ते लोरेम्बावाय्।
संस्कृतम्-श्लो।"अत्यन्तकल्पसमये समुपेत्य हि त्वां संसेव्यते रुचिरहेमपदारविन्दम्।
आशास्महे फलमिदं श्रुणु गोसमूहं संचार्य भोक्तरि कुलेत्ववतीर्ण! नस्ते॥
कैङ्कर्यवृत्तिषु न चाप्रतिगृह्य युक्तं स्थातुं,ततग्रहणमात्रपरा न चाद्य।
गोविन्द! सप्तजननेष्वपि सर्वथा ते भक्ता भवेम तव शेषविधिं चरेम॥
अन्यां निवर्तय मनोरथसन्ततिं नः,त्वद्दासताङ्गमय संततमस्तु भद्रम्।
ध्येयः फलं च करणं च भवान् हि कृष्ण! वृत्तं निसर्गमधुरं व्रतमस्मदीयम्।
तात्पर्यम्ः-"हे कृष्ण! अत्यन्तप्रातःकाले एव भवत्सन्निधिमागत्य भवन्तं संसेव्य,भवत्पादारविन्दद्वयस्य
मङ्गळाशासनकरणे मतिरस्माकमेवमस्ति।विज्ञापयामः।कृपया श्रुणोतु।पशुपालकानामस्माकं
कुले जनिं प्राप्तवतः ते अस्मदन्तरङ्गकैङ्कर्यं नाङ्गीकर्तुमयोग्यम्।अद्य त्वत्तः यं कंचित् क्षुद्र
पुरुषार्थं ग्रहीतुं नागता वयम्।हे गोविन्द! पुण्डरीकाक्ष! सप्त सप्त जननेष्वपि एतत्कालतत्वपरि
समाप्तिपर्यन्तम् भवतः अनन्यार्हशेषभूता वयं भवता सहैव उषित्वा भवत्कैङ्कर्यकर्तुकामा एव।
यद्यन्यथा चिन्तनमस्त्यस्माकं तत्कृपया निवर्त्य कटाक्षयत्वस्मान्।"इति पाशुरेऽस्मिन् गोप
कन्याः श्रीकृष्णं प्रार्थयामासुः।
विशेषाःः--अत्यन्तप्रातःकालकथनेन ब्राह्मीमुहूर्तस्सूच्यते यत्र कालस्सत्त्वोद्रिक्तो भवति।सर्वज्ञाय विज्ञप्तिः ना
वश्यकी।अतः क्षन्तव्यमिति प्रार्थितम्।किमपि वाद्यं नापेक्षितमिति,तद्व्याजेन शाश्वतिकं दास्य
मेवापेक्षितमिति कथितम्।"गोविन्दा"इत्यत्र गोशब्दस्य शब्दराशिपरत्वेन तस्य वेदोद्धरणाद्यवता
रकृत्यं सूच्यते।गोशब्दस्य किरणार्थत्वेन तस्य सूर्यमण्डलान्तर्वर्तित्वं व्यज्यते।एवमादीन्यूहितुं
शक्यानि।
अभिवाद्य,
ऐवियन्।