> श्रीदक्षिणामूर्तिस्तोत्रे द्वितियश्लोके एवं पठ्यते -
> मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । इति ।
"कलिः कामधेनुः" इति काव्यरसिकाः।
अत्रैवं व्याख्या -
"मायया = ईश्वराधिष्ठितया, कल्पितौ देशकालौ, तयोः कलना =
संबन्धः,तद्वैचित्र्येण चित्रीकृतम् = नानाविधभेदभिन्नतया विभक्तम्; "तं
नामरूपाभ्यामेव व्याक्रियत" इति श्रुतेः।"
इति।
दैशिक-कालिक-सम्बन्धेनेयत्ता अनन्तस्य ब्रह्मणः वैचित्र्येण चित्रीकरणमिति
तात्पर्यम्। "कलयसि करवालम्" इत्यादिप्रयोगात् कलिः कामधेनुरिति यस्मिन्नर्थे
विवक्षा भवति, तस्मिन्नर्थे प्रयोगः। आकलनम्, संकलनम्, इत्यादयः अर्थभेदाः
उपसर्गवशात्। उपसर्गं विनापि नानार्थकः अयं धातुः, तन्निष्पान्नश्च
कलना-शब्दः। युच्-प्रत्ययान्तः।
--
*Dr. Hari Narayana Bhat B.R. M.A., Ph.D.,
**Research Scholar,
*
Ecole française d'Extrême-OrientCentre de Pondichéry
16 & 19, Rue Dumas
Pondichéry - 605 001