It is without akara in the beginning, i.e, sambhUtim only.
The accent also is not 'नञ्' svara. In Shri Ramanuja's system,
commentary by Sri Vedanta Desika and five others have taken as
sambhUtim only.
Ramanujan
On Mon, Jul 30, 2012, Advayananda <
advay...@gmail.com> said:
> Respected Sri V Subrahmanianji and Sri Narasihmacharyaji,
> Hari Om! Salutations.
>
> Grateful for both your inputs which I found very valuable for my reflection.
>
> My basic query is about the padapāṭha of verse 14 of Īśa-upaniṣad, the first word of the first pāda. Does it go as sambhūtim or asambhūtim?
>
> While giving his commentary, Śrī Śaṅkarācārya takes the first word of the first pāda as 'asambhūtim'. How does Śrī Rāmanujācārya and and Śrī Madhvācārya take this word: as 'sambhūtim' or 'asambhūtim'? More importantly what does the padapāṭha of this verse say?
>
> In Shri Guru Smriti,
> Advayananda
>
>
> On 29-Jul-2012, at 10:46 PM, V Subrahmanian wrote:
>
>>
>>
>> 2012/7/29 Iragavarapu Narasimhacharya <
insac...@gmail.com>
>> महोदयाः,
>> सादरम्प्रणम्य।ईशावास्योपनिषदि द्वादशश्लोके "येऽसंभूतिमुपासते"इत्यत्र अकारप्रश्लेषेण "असंभूति"रिति
>> लिखितम्।अत्र अविद्यामिति मूलश्लोके न दृश्यते। संभूतिर्नाम ब्रह्मप्राप्तिरूपफलम्।(The fruit of attaining Brahman).असंभूतिर्नाम प्रकृतिबन्धरूपशरीरनिवृत्तिः/विनाशः।संभूत्यसंभूत्यर्थविज्ञानं ब्रह्मविद्यासाधनमिति तात्प्रर्यम्।आङ्ग्लभाषायां असंभूतिर्नाम "Destruction of the body acting as hindrance.
>> शङ्करभाष्ये संभूत्यसंभूतिशब्दयोः एवमर्थः कथितोऽस्ति। "संभूतिर्नाम सृष्टिकर्ता हिरण्यगर्भः।असंभूति र्नाम लयस्थानमचेतनमव्याकृतम्।हिरण्यगर्भोपासनेन मृत्युतरणं नाम अणिमाद्यष्टैश्वर्यसिद्धिः।अव्याकृतोपासनेन(अचेतनरूपप्रकृत्युपासनेन) अमृतत्वप्राप्तिर्नाम तस्मिन् अचेतने लयप्राप्तिः।"इति।(पश्यन्तु----ईशावास्योपनिषत्--प्रतिपदार्थ,तात्पर्य,व्याख्या,विशेषार्!
थसहिता--महामहोपाध्यायैःविरचिता--सत्सम्प्रदायपरिरक्षणसभया वरङ्गल् नगरे मुद्रिता च)कर्मकाण्डे इव इन्द्र,
>> हिरण्यगर्भादि तत्तद्देवतोपासनं वा, अणिमाद्यैहिकफलप्राप्तिर्वा कर्मनिष्ठाय बोधनं ब्रह्मविद्यासम्बन्धित
>> उपनिषत्प्रकरणसम्बन्धि न भवतीति
>>
>> अत्रेदमवधेयम् - १५ तमन्त्रस्यारम्भभाष्ये एवमुक्तं श्रीशंकराचार्यैः - मानुषदैववित्तसाध्यं फलं शास्रलक्षणं प्रकृतिलयान्तम्। एतावती संसारगतिः । अतः परं पूर्वोक्तमात्मैवाभूद्विजानतः इति सर्वात्मभाव एव सर्वैषणासन्न्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य �!
��ृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य वेदार्थस्य प्रकाशनेऽत ऊर्ध्वं बृहदारण्यकमुपयुक्तम् ।
>>
>> इति विभागेन अर्थः प्रदर्शितः भाष्ये । एषा शैलिः कठोपनिषद्यपि दृश्यते । आद्यद्वयवरविषयः साम्सारिकस्ततः परं तृतीयवरविषय एव पारमार्थिकः मोक्षविषयक इति । एवं उपनिषदां शैलिमनुसृत्यैव भाष्यं प्रवर्तते इति न ईषदप्यसामञ्जस्यम् ।
>> ,मृत्यु,तरण,अमृत शब्दानां प्रकृतिसम्बन्धपरित्याग इति,मोक्ष इति स्थितान् सहजान् अर्थान् परित्यज्य अणिमादिप्राप्ति,लय रूपगौणार्थकथनमनुचितमिति च व्यख्यातं तत्र पुस्तके।
>> अभिवाद्य,
>> ऐवियन्।
>>
>>
>> उपर्युक्तविषये इदं किञ्चित् प्रदर्श्यते -
>>
>> मया पूर्वोदाहृतग्रन्थे ज्येष्ठविद्वांसः प्रान्तियंकरै श्री एस्.सुब्रह्मण्यशास्त्रिणः टिप्पण्यां एवं लिलिखुः -
>>
>> यत्तु रामानुजीयनां व्याख्यानम् - विद्यां चाविद्यां चेति ज्ञानकर्मसमुच्चयविधानम् । तत् विद्या साक्षाद्भगवत्प्राप्तिसाधनं कर्म च तस्या अङ्गमित्युक्तम् । तन्न । अविद्याशब्दितस्य कर्मणः अविद्यया मृत्युं तीर्त्वेति पृथक्फलश्रवणात्, अङ्गानां फलाभावात् । अतः कर्मणां न विद्याङ्गत्वम् । अङ्गत्वे विद्यापदेन साङ्गं पृतक् गृह्येत ।
>>
>> यत्तु संभूतिं च विनाशं चेत्यत्र सम्भूतिः ब्रह्मानुभूतिः । विनाशः समाध्यन्तरायाणां विनाशः इति; तत्राप्युक्तविनाशस्य समाध्यङ्गत्वात् विनाशेन मृत्युं तीर्त्वेति पृथक्फलकथनमयुक्तम्, अङ्गानां पृथक्फलाभात् । अपि च येऽसम्भूतिमुपासते समाधिविरुद्धरागद्वेषादिनिवृत्तिमात्रनिष्ठाः ते अन्धं तमः प्रविशन्तीति चित्रं ’नहि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति’ इति भग�!
�द्वचनविरोधात् । ये ब्रह्मसमाधिमात्रनिष्ठास्ते तमः प्राप्नुवन्तीत्यपि न; ’यान्ति मद्याजिनोऽपि माम”त्यनेन विरोधात् । अपि च सम्भूतिं च विनाशं चेत्यत्र सम्भूतिः समाधिरिति व्यख्यानमयुक्तम्, सम्भूतेरुत्पत्त्यर्थत्वात् । अपि च विनाशशब्देन पूर्वोक्तसम्भूतिपरामर्शो न युक्तः उत्पन्नस्य विनाशित्वनियमात् अनुत्पन्नस्याविनाशित्वात् । इति ।
>>
>> एवं पूर्वोक्तविरोधाद्यभावात् शंकरभाष्यमेव साधु इति समर्थयन्ति ।
>>
>
--
Dr. P. Ramanujan
AD-IHLC,
C-DAC, Bangalore (KP)
ra...@cdac.in
080-25246350, 66116444 (Off.-Dir.)
-------------------------------------------------------------------------------------------------------------------------------
This e-mail is for the sole use of the intended recipient(s) and may
contain confidential and privileged information. If you are not the
intended recipient, please contact the sender by reply e-mail and destroy
all copies and the original message. Any unauthorized review, use,
disclosure, dissemination, forwarding, printing or copying of this email
is strictly prohibited and appropriate legal action will be taken.
-------------------------------------------------------------------------------------------------------------------------------