(पूर्वतोऽनुवर्तते) पूर्वस्मिन्लेखे गन्धनिष्ठ आधेयतायां
समवायसम्बन्धावच्छिन्नत्वरूप विशेषणं निवेश्य काले अतिव्याप्तिर्निवारिता।
तथापि
अद्य जले अतिव्याप्तिर्भवति। कथमिति चेत्,समवायसम्बन्धावच्छिन्ना गन्धनिष्ठा
या आधेयता इत्युक्ते,गन्धे समवायसम्बन्धावच्छिन्ने आधेयते द्वे वर्तेते--एका
गुणत्वावच्छिन्ना,अपरा गन्धत्वावच्छिन्ना च। तयोस्सर्वगुणेषु विद्यमाना
गुणत्वावच्छिन्ना आधेयता स्वीकृता चेत्,तन्निरूपिता अधिकरणता जले विद्यमाना
अधिकरणता भवति।तदाश्रयत्वस्य जले सत्वात्तत्रातिव्याप्तिः। अतः तद्वारणार्थं
गन्धनिष्ठ आधेयतायां गन्धत्वावच्छिन्नत्वरूपविशेषणं देयम्। एवं च
समवायसम्बन्धावच्छिन्ना गन्धत्वावच्छिन्ना या आधेयतेत्युक्ते
गन्धत्वावच्छिन्ना समवायसम्बन्धावच्छिन्ना आधेयतैव। न
तु,गुणत्वावच्छिन्ना।तन्निरूपिता अधिकरणता पृथिवीनिष्ठा अधिकरणतैव।न
जलादिनिष्ठा। जले गुणत्वेन रूपेण गन्धस्य सत्वेपि गन्धत्वेन रूपेण अभावात्।
तदाश्रयत्वस्य पृथिव्यां सत्वात्समन्वयः। जले अभावान्नातिव्याप्तिश्च।
नन्वेवमपि,उत्पन्नविनष्टघटे अव्याप्तिर्भवति। कथमिति चेत्, "उत्पन्नं द्रव्यं
क्षणमगुणं निष्क्रियञ्च तिष्ठती"ति न्यायेन उत्पन्नविनष्टघटे गन्धाभावात्
समवायसम्बन्धावच्छिन्न,गन्धत्वावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयाभावेन
अव्याप्तिः। अतः तद्वारणार्थं जातिघटित
लक्षणं कार्यम्।
तच्चेत्थम्----"समवायसम्बन्धावच्छिन्न,गन्धत्वावच्छिन्न आधेयतानिरूपित
अधिकरणतावद्वृत्ति या जातिः तादृशजातिमत्वं पृथिव्याः लक्षणम्"इति। एवं च,
समवायसम्बन्धावच्छिन्न,गन्धत्वावच्छिन्न आधेयतानिरूपित अधिकरणतावान्
द्वितीयक्षणावच्छिन्नो घटादिः।तद्वृत्ति
र्या जातिरित्युक्ते पृथिवीत्वरूपा जातिर्भवति। तदाश्रयत्वस्य उत्पन्नविनष्ट
घटादि निखिलपृथिवीषु सत्वात्समन्वयः।
नन्वेवमपि पुनः जलादावतिव्यप्तिः।कथमिति
चेत्,समवायसम्बन्धावच्छिन्न,गन्धत्वावच्छिन्न,आधेयतानिरूपित अधिकरणतावान्
द्वितीयक्षणावच्छिन्नो घटादिः।तद्वृत्तिर्या जातिरित्युक्ते,द्रव्यत्वरूपा
जातिरपि भवति। तद्वत्वस्य जलादौ सत्वात्। अतः जातौ द्रव्यत्वसमाना-
धिकरण भेदप्रतियोगितावच्छेदकत्वरूप द्रव्यत्वव्यप्यत्वरूप विशेषणं देयम्। एवं
च,द्रव्यत्वसमानाधिकरण भेदप्रतियोगितावच्छेदकत्वाभावात्
पृथिवीत्वरूपा जातिरेव तादृशी भवतीति तादृशजातिमत्वस्य पृथिव्यामेव सत्वात्
समन्वयो भवति।जलादवभावान्नातिव्याप्तिश्च।
एवं च,पृथिव्याः
निष्कृष्टलक्षणं--"समवायसम्बन्धावच्छिन्न,गन्धत्वावच्छिन्न,आधेयतानिरूपित
अधिकरणतावद्वृत्तिः,द्रव्यत्वाधिकरणवृत्ति
भेदप्रतियोगितावच्छेदकीभूता च या जातिः तादृशजातिमत्वं पृथिव्याः लक्षणम्"इति।
अभिवाद्य,
ऐवियन्।
---
Sent via Epic Browser