तिरुप्पावै------पाशुरम् १७ "अम्बरमे;तण्णीरे"(१-१-२०१२ दिनाङ्के)-----निवेद्यते।
तमिळम्---"अम्बरमे;तण्णीरे;शोरे;अरम् शेय्युम् एम्बेरुमान्! नन्दगोपाला! एळुन्दिराय्;
कोम्बनार्केल्लाम् कोळुन्दे! कुलविळक्के! एम्बेरुमाट्टि!यशोदाय्!अरिवुराय्;
अम्बर मूडरुत्तोङ्गि युलगळन्द,उम्बर् कोमाने! उरङ्गादेळुन्दिराय्;
शेम् पोर्कळ लडिच्चेल्वा! बलदेवा! उम्बियुम् नीयुम् उरङ्गेलोरेम्बावाय्.
प्रतिपदार्थः:-अम्बरमे=वस्त्राण्येव;तण्णीरे=शीतलजलमेव;शोरे=अन्नमेव;अरम्=धर्मम्(दानं);
शेय्युम्=कुर्वाणो;एम्बेरुमान्=अस्मत्स्वामिन्;नन्दगोपाला=नन्दगोप;एळुन्दिराय्=उत्तिष्ठ;
कोम्बनार्कु=वेतससदृशीनां (स्त्रीणां);एल्लाम्=सर्वासाम्;कोळुन्दे=किसलयरूपिणि;
कुलविळक्के=अस्मद्गोपवंशस्य दीपभूते;अरिवुराय्=उत्तिष्ठ:अम्बरम्=आकाशम्;ऊडरुत्तु=
छित्त्वा;ओङ्गि=ऊर्ध्वमुन्नतो भूत्वा;उलगु=लोकान्;अळन्द=मापयितः!उम्बर्=अनन्त
गरुडादि नित्यसूरिणां;कोमाने=नायक!(श्रीकृष्ण);उरङ्गादु=निद्रां मा कुरु;एळुन्दिराय्=
उत्थाय,एहि;शेम् पोन् कळल्=अरुणस्वर्णमयनूपुरसहित;अडिच्चेल्वा=पादसम्पन्न;बल
देव=बलराम!;उम्बियुम्=त्वदनुजः(कृष्णः),नीयुम्=त्वं च;उरङ्गेल्=उत्तिष्ठेत्।
संस्कृतम्-श्लो।"दिव्याम्बरोदकधनौदनदानशील! स्वामिन्! प्रबोध कृपया ननु नन्दगोप!
रामालताप्रकरवल्लववंशदीप! श्रीस्वामिनि! प्रियकुटुम्बिनि! हे यशोदे!
उद्बोध चाम्बरनिरन्तरवर्धनेन लोकान् समान् प्रमितवन्नमराधिनाथ!
निद्रां विमुञ्च रुचिरारुणपादपद्म! श्रीमन्! बलाधिप!हलायुध! रौहिणेय!
सम्पन्नराम करुणाकर वत्सल त्वं भव्येन तेऽनुजवरेण विबोध तूर्णम्।
ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
तात्पर्यम्:--गोदादेवी सखीजनसहितं नन्दगोपभवनस्य अन्तः प्रविवेश।तत्र नन्दगोपं यशोदां
बलरामं श्रीकृष्णञ्च प्रबोधयन्त्यस्ति।नन्दगोपं वस्त्रदाता इति,शीतलजलदाता इति,
अन्नदाता इति,यशोदादेवीं गोपकुलस्वामिनी इति,श्रीकृष्णस्वामिनं त्रिविक्रम इति,
नित्यसूरिनायक इति, बलरामं पादे नूपुर/कङ्कण धारी इति स्तुत्वा निद्रातः
उत्थाय अनुगृह्णन्त्विति प्रार्थितवती।
विशेषाः:---नन्दः कस्मैचिदपि वस्त्राणि वा,जलं वा,अन्नं वा दत्तवानिति न श्रुतम्। परन्तु,कृष्णः
तथा कृतवान्।द्रौपद्यै वस्त्राणि दत्तवान्।भारतयुद्धे तस्य रथाश्वाः यदा श्रान्ताः तदा तेषां
पिपासानिवारणाय वारुणास्त्रं प्रयुज्य भूतलजलमानीय दत्तवान्।गोपालकैस्सह वने
सञ्चरन् तेषां बुभुक्षां निवारयितुं समीपस्थयागशालां गत्वा तत्रत्यब्राह्मणपत्नीभ्यः
अन्नं दापयितवान्।पितर्यपि एतदूहित्वा तथा उक्तं स्यादिति ज्ञेयम्।जलं प्राणधारकम्।
अन्नं शरीरपोषकम्।वस्त्रं शरीरस्य भूषणम्।
नन्दगोपः अत्र आचार्यः।आचार्यस्य त्रीणि लक्षणानि।स परमात्मनो विधेयो भवेत्।
जीवान् परमात्मसान्निध्यं नेतुं शक्नुयात्।सः जीवानामज्ञानं निवार्य मोक्षोपायमुप
दिशेत्।अतः आण्डाळ् नन्दगोपमाश्रितवती।अत्र अम्बरं नाम आकाश इति,वस्त्रमिति
भगवानिति च अर्थास्सन्ति।वस्त्रं सर्वदेवतास्वरूपमिति कथ्यते।भगवतः नामसु
"मानदः"इत्यपि नामास्ति। वस्त्रेणैव खलु मानं रक्ष्यते।आचार्यकृपया विरजानदीस्नानं
लभ्यते।अत्र यशोदा मन्त्रमित्युच्यते।मन्त्रस्य सन्निधौ भगवान् कृष्णोऽस्ति।बल
रामस्य पादे नूपुरं/कङ्कणमस्ति खलु।बलरामः देवक्याः गर्भे सप्तमसन्तानत्वेन
जातस्सन् योगमायया रोहिणीगर्भे श्रीकृष्णस्य आज्ञयैव प्रवेशित आसीत्।जननदोष
निवारणार्थं बलरामस्य पादे नूपुरमस्ति। लोके मेषपालकानां पादेऽपि वयं नूपुरं
पश्यामः खलु।अस्मिन् पाशुरे नन्दगोपं,यशोदां,बलरामं कृष्णञ्च प्रबोधितवती
गोदादेवी।
अभिवाद्य,
ऐवियन्।