तत्र ब्रह्मसूत्रशङ्करभाष्यस्य रत्नप्रभाव्याख्याने निषादस्थपतिन्यायविषये एवमुक्तम्।
तत्र
निषादानां स्थपतिः स्वामीति
षष्ठीसमासेन त्रैवर्णिको
ग्राह्यः,
अग्निविद्यादिसामर्थ्यात्
। न
तु निषादश्चासौ स्थपतिरिति
कर्मधारयेण निषादो ग्राह्यः,
असामर्थ्यादिति
प्राप्ते सिद्धान्तः। निषाद
एव स्थपतिः स्यात्,
निषादशब्दस्य
निषादे शक्तत्वात्, तस्याश्रुतषष्ठ्यर्थसंबन्धलक्षकत्वल्पनायोगात्श्रुतद्वितीयाविभक्तेः
पूर्वपदसंबन्धकल्पनायां
लाघवात्,
अतो
निषादस्येष्टिसामर्थ्यमात्रं
कल्प्यमिति । इति। शूद्रायां ब्राह्मणाज्जातो निषादः इति।