तत्त्वबिन्दुः - शब्दार्थयोस्सम्बन्धः

84 views
Skip to first unread message

श्रीमल्ललितालालितः

unread,
Dec 17, 2011, 5:38:11 AM12/17/11
to bhAratIya-vidvat-pariShat, Samskrita Google Group
तत्त्वबिन्दौ तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
"तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः , अर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वात् , ज्ञानभेदस्यार्थाभेदात्तदनभिधानेऽभिधानाभावात् , अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः , तद्धेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् , स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"
- इति ।
तत्र तत्त्वविभावना टीका नोपलभ्यते ।
टिप्पण्यां तु -
"वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् , तत्तदर्थगतभेदप्रतिपादनस्य तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् , ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदात् , ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया , अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे पदवाच्यताभ्युपगमवैयर्थ्यात् , अर्थगतवैलक्षण्यबोधस्य त्वन्वयप्रयोज्यत्वमात्रेण स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः , शब्दार्थसम्बन्धस्स्वाभाविक एव - इति सिद्धान्त - इत्यर्थः"
- इत्युक्तम् ।
शब्दार्थयोस्सम्बन्धस्य स्वाभाविकत्वे हेतूनामन्वयः कथम् । हेतुग्रन्थानां वा कथं परस्परमन्वयः । टिप्पणी वा कथमपरार्द्धे मूलानुगा ।


NARAYANAN E R

unread,
Dec 19, 2011, 5:20:51 AM12/19/11
to bvpar...@googlegroups.com
आचार्य,
मूले-शब्दादर्थप्रतीतिरुपपद्यते इत्यतः पदतदर्थबोधयोः सम्बन्ध उपैति।
अर्थभेदं निरूपयितुं ज्ञानभेदो निबद्धः इति हेत्वन्तरम्। एतत् अर्थाभेदेन अन्वेति।
ज्ञानभेदस्य अर्थे अभेदात्, पदार्थसम्बन्धानभिधाने अभिधानं नास्ति इत्यतः
शब्दार्थयोः सम्बन्धः स्वाभाविक इति कल्पनीयम्। अर्थाभेदत्वं अभिधानाभावं
प्रत्यन्वेति।
अर्थभेदस्य अभिधानेनापि तयोः सम्बन्धस्य अभिधानं न उपपद्यते,
तदनुपपत्तिहेतोः सम्बन्धकल्पने, अर्थभेदाभिधानमपि अभिधानाभावं
प्रत्यन्वेति।
अभिधानार्थं स्थानप्रयत्नाद्यपि वाच्यत्वं प्राप्नुयादिति हेतुकल्पनायां
आनन्त्यं प्रतीयते। तस्मात् स्वाभाविकश्शब्दार्थयोस्सम्बन्धः इति
कल्प्यते।
इत्यल्पीयसी मे मतिः।
नारायणः।


On 12/17/11, श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com> wrote:
> *तत्त्वबिन्दौ *तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
> "*तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि


> सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः , अर्थभेदनिरूपणस्य च
> ज्ञानभेदनिबन्धनत्वात् , ज्ञानभेदस्यार्थाभेदात्तदनभिधानेऽभिधानाभावात् ,
> अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः , तद्धेतुतया तु तत्कल्पने
> ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् , स्वाभाविकश्शब्दार्थयोस्सम्बन्ध -

> इति स्थितिः* ।"
> - इति ।
> तत्र *तत्त्वविभावना *टीका नोपलभ्यते ।
> *टिप्पण्यां *तु -
> "*वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं


> बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् , तत्तदर्थगतभेदप्रतिपादनस्य
> तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् , ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन
> तत्तदर्थरूपतयाऽर्थाभेदात् , ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य
> बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया ,
> अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण
> शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे
> पदवाच्यताभ्युपगमवैयर्थ्यात् , अर्थगतवैलक्षण्यबोधस्य
> त्वन्वयप्रयोज्यत्वमात्रेण
> स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे
> भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि
> परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः ,

> शब्दार्थसम्बन्धस्स्वाभाविक एव - इति सिद्धान्त - इत्यर्थः ।*"


> - इत्युक्तम् ।
> शब्दार्थयोस्सम्बन्धस्य स्वाभाविकत्वे हेतूनामन्वयः कथम् । हेतुग्रन्थानां वा
> कथं परस्परमन्वयः । टिप्पणी वा कथमपरार्द्धे मूलानुगा ।
>

> *श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com/>
> lalitAlAlitaH <http://about.me/lalitaalaalitah/bio>*
>
> --
> अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
> ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
> तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
> निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)
>

subrahmanyam korada

unread,
Dec 19, 2011, 12:05:47 PM12/19/11
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

पणिनीयदर्शनं  तावत् अष्टपदार्थान् विचारयति --

अपोद्धारपदार्था ये ये चार्थाः स्थितलक्षणाः !
अन्वाख्येयाश्च ये शब्दा  ये चापि प्रतिपादकाः!!
कार्यकारणभावेन योग्यभावेन च स्थिता ः!
धर्मे च प्रत्यये चाङ्गं सम्बन्धास्साध्वसाधुषु !!
ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेस्मिन्नुपवर्णिताः
स्मृत्यर्थमनुगम्यन्ते केचिदेव यथागमम् !! (वाक्यपदीयम् - ब्रह्म - 24,25,26

अश्टपदार्थीरूपत्वात् व्याकरणस्य -- हेलाराजः

2 शब्दौ --  प्रकृतिप्रत्ययौ , पदवाक्ये च
2 अर्थौ  -  प्रकृतिप्रत्ययार्थौ , पदवाक्यार्थौ च
2  संबन्धौ - कार्यकारणभावः , योग्यता च
2  प्रयोजने  - अर्थज्ञानम् , धर्मश्च

शब्दार्थयो ः कार्यकारणसंबन्धः - वक्ता प्रथमतः  बुद्धौ अर्थं स्मरति , ततश्च  तदर्थप्रत्यायनाय तत्सम्बद्धं शब्दं प्रयुङ्ते -अर्थः कारणम् , शब्दः कार्यम् ! श्रोता पुनः श्ब्दं श्रुत्वा अर्थं  अवगच्चति - शब्दः कारणम् , अर्थः कार्यम् !

योग्यता  नाम अर्थबोधकशक्तिः तादात्म्यरूपा ! सैव संबन्धः अनादिसिद्धः --

इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा !
अनादिरर्थैश्शब्दानां संबन्धो योग्यता तथा !! वाक्य . पद. संबन्धसमुद्देशः 29

अनादिः = संबन्धरि सति असति वा स्वभावसिद्धः - स्वाभाविकः संबन्धः -- स्वभावः प्रयोजनम् = कारणम् अस्य स्वाभाविकम् -- (तदस्य) ’प्रयोजनम्’(फलम् / कारणम्) पाणिनिः 5-1-109 - ठञ्

इन्द्रियम् तावत् अज्ञातमपि ज्ञानं  जनयति , शब्दस्तु  ज्ञात एव अर्थबोधकः इति विशेषः !

स्वम् = आत्मा , तेन सह  भावः = जातः

यदि  छलं तावदाश्रीयते   तर्हि समवायः संबन्धः भवेत् -- प्रतिज्ञा  न साधनाङ्गम् (बौद्धाः) , सर्वं मिथ्या ब्रवीमि - इत्यादि !

प्रथमवार्तिकम् -- सिद्धे शब्दार्थसंबन्धे लोकतो’र्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमः क्रियते !

वाक्यपदीयम् - ब्रह्मकाण्ड:-23 --

नित्याश्शब्दार्थसम्बन्धा ः तत्राम्नाता महर्षिभिः ! 
सूत्राणामनुतन्त्राणां भाष्यानां च प्रणेतृभिः !!

शब्दार्थसम्बन्धे - इति समाहारद्वन्द्वः  तेषां नित्यत्वं स्वाभाविकत्वं च सूचयितुम् !

भाष्यम् -- अथ द्रव्ये पदार्थे कथं विग्रहः क्रियते ? सिद्धे सब्दे अर्थसम्बन्धे चेति ! नित्यो हि अर्थवताम् अर्थैः अभिसंबन्धः !

!कैयटः - अनित्ये’र्थे कथं संबन्धस्य नित्यता इति चेत्  योग्यतालक्षणत्वात्  संबन्धस्य ! तस्याश्च  शब्दाश्रयत्वात्  - शब्दस्य च नित्यत्वाददोषः!

अत्र सूत्रकारः पाणिनिः -- तदस्यास्त्यस्मिन्निति मतुप् (5-2-94) -

’अस्ति ’ इति पदकृत्यस्य विचारे पतञ्जलिना अभाषि - स्त्ता च    द्विविधा -- औपचारिकी , बाह्या च . ’ न हि पदार्थः सत्तां व्यभिचरति’
तस्मात् ’ अस्ति’ इति पदेन बाह्यसत्ता पाणिनिना उद्दिष्टा - देवदत्तस्य गावः सन्ति - वर्तमानकालो’पि - गोमान् ! गावः आसन् / भविष्यन्ति इति मतुप् नैव भविता !

औपचारिकसत्ता  नाम बौद्धार्थः - सा च  सर्वदा - भूतभविष्यद्वर्तमानेषु भवति - स एव शब्दार्थः  - तेन शशशृङ्गादीनाम्  बाह्यसत्ताभावे’पि प्रातिपदिकत्वम् -- अर्थवदधातुरप्रत्ययः प्रातिपदिकम् ( 1-2-45) .

अत्र योग्नुशासनम् (३-१७) -- शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् 

व्यासभाष्यम् - शब्द एव अर्थः , अर्थ एव ज्ञानम् , ज्ञानमेव शब्दः !

महाभाष्यम् (पस्पशा) - येनोच्चारितेन् सास्नालाङ्गूलककुदविषाणिनां संप्रत्ययो भवति स शब्दः (संप्रत्ययः = ज्ञानम्)

शक्तिग्राहकशिरोमणिः अनादिवृद्धव्यवहार एव !

अत्र वाक्यपदीयम् - पदकाण्डः - सम्बन्धसमुद्देशः --

ज्ञानं प्रयोक्तुर्बाह्यो’र्थः स्वरूपं च प्रतीयते !
शब्दैरुच्चरितैस्तेषां संबन्धो’स्तीति गम्यते !! 1

उच्चरितैः शब्दैः प्रयोक्तुः ज्ञानम्  , बाह्यार्थः घटपटादिरूपः , शब्दस्वरूपम् च ज्ञायते ! (अतः ) तेषां = वक्तुः ज्ञानस्य , बाह्यार्थस्य , शब्दस्वरूपस्य च संबन्धः अस्तीति गम्यते = अनुमीयते ! 

-- ज्ञानरूपः अर्थ् एव शब्दवाच्यः

अत्र शब्दार्थयोः योग्यता संबन्धः -- इन्द्रियाणां स्वविषयेषु ...

वक्तुः ज्ञानस्य शब्दस्य च कार्यकारणसंबन्धः --

शब्दः कारणमर्थस्य स हि तेनोपजन्यते !
तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते !! 32

अर्थः = अर्थज्ञानम्

अभिन्नकालामर्थेषु भिन्नकालेष्ववस्थिताम्!
प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम् !!
एतां सतां पदार्थो हि न कश्चिदतिवर्तते !
सा च सम्प्रतिसत्तायाः पृथक्भाष्ये निदर्शिता !! 50,51

, अर्थभेदनिरूपणस्य च
> ज्ञानभेदनिबन्धनत्वात् , ज्ञानभेदस्यार्थाभेदात्तदनभिधानेऽभिधानाभावात् ,
> अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः , तद्धेतुतया तु तत्कल्पने
> ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् , स्वाभाविकश्शब्दार्थयोस्सम्बन्ध -
> इति स्थितिः* ।"

तस्मात्  ज्ञानभेदनिमित्तत्वम् अर्थभेदनिरूपणस्य -- बाह्यार्थाभावे’पि बौद्धार्थस्य सत्वात् !

ज्ञानस्य अनभिधाने प्रयोगस्याभावात् !

यदि संबन्धः कल्पितः , न तु स्वाभाविकः , तर्हि  ताल्वादिव्यापारो’पि  कल्पित इति तस्यापि वच्यत्वप्रस्ंगः !

धन्यो’स्मि










2011/12/19 NARAYANAN E R <drerna...@gmail.com>



--
Prof.Korada Subrahmanyam
Professor of Sanskrit,
CALTS,
University of Hyderabad 500046
Ph:09866110741(R),91-40-23010741,040-23133660(O)





श्रीमल्ललितालालितः

unread,
Dec 27, 2011, 12:51:46 AM12/27/11
to bvpar...@googlegroups.com, Samskrita Google Group
इयमत्र मे मतिर्निरूपिता शङ्कास्वरूपख्यापनाय । दृष्ट्वा स्वाभिमतं प्रकाशनीयं विद्वद्भिः
- इति ।
2011/12/17 श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com>

तत्त्वबिन्दौ तावच्छब्दार्थयोसम्बन्धस्य स्वाभाविकत्वोपपादनायोक्तं -
"तत्रानादिवृद्धव्यवहारपरम्परायां पदतदर्थसम्बन्धबोधोपाये सति असत्यपि सम्बन्धरि शब्दादर्थप्रतीतेरुपपत्तेः

अनादिवृद्धव्यवहारपरम्परात्मके शक्तिग्राहके सति शक्तेरप्यनादित्वात्स्वाभाविकत्वं सिद्ध्यति । अतो न पदतदर्थयोरर्वाचीनस्सम्बन्धोपदेष्टापेक्षितः ।
एतदेवोक्तं टिप्पणीकारेण -
वृद्धव्यवहारपरम्परारूपे शब्दार्थसम्बन्धज्ञानकारणे सति अनेन शब्देनायं बोध्य इत्युपदेष्टर्यसत्यपि बोधदर्शनात् । इति ।
अत्र पुनरियं शङ्का -
ननु येऽर्था इदानीमेव निर्मिता, यथा सङ्गणकादयः , विशिष्टशब्दवाच्यत्वेन च निर्दिष्टा , तेषां किं स्वाभिधायकैर्न सङ्गणकादिपदैः स्वाभाविकस्सम्बन्धः इति ।
 
, अर्थभेदनिरूपणस्य च ज्ञानभेदनिबन्धनत्वात् ,

ज्ञानगतभेदेनैवार्थभेदस्य निरूपणम् - अभिधानम् । यथा घटाकारज्ञानस्य पटाकारज्ञानाद् यो भेदस्तदधीन एव घटपटयोर्भेदस्य निश्चयस्ततश्च घटपदेन घटस्य पटभिन्नत्वेनाभिधानं , पटपदेन च पटस्य घटभिन्नत्वेन ।
एतदुक्तं - तत्तदर्थगतभेदप्रतिपादनस्य तत्तद्विषयकज्ञानाकारभेदप्रयुक्तत्वात् इति ।
अग्रिमग्रन्थदर्शने ज्ञायते यत् अर्थभेदनिरूपणस्य ज्ञानभेदनिरूपणाधीनत्वमेव विवक्षितम् । तथापि निश्चयो नात्र मे ।

ज्ञानभेदस्यार्थाभेदात्

अत्र टिप्पणीकारः -  ज्ञानगतवैलक्षण्यस्य विषयतासम्बन्धेन तत्तदर्थरूपतयाऽर्थाभेदात् इति ।
कथमेतत् ।
ज्ञानभेदस्यार्थभेदाधीनत्वमेव प्रतीयते , न त्वर्थात्मकत्वमपि । ज्ञानस्य विषयेण साकं विषयताख्यसम्बन्धसत्त्वेऽपि तद्गतवैलक्षण्यस्य तत्कथमुक्तं टिप्पणीकारेण ।
 
तदनभिधानेऽभिधानाभावात् ,

ज्ञानगतवैलक्षण्यस्य वस्तुतस्सत्त्वेऽपि तस्य बोधविषयत्वाभावेन पदेषु तत्तज्ज्ञानगतवैलक्षण्यनिरूपितशक्तेर्वक्तुमशक्यतया , - इति हि टिप्पणी ।
ज्ञाने वैलक्षण्यस्यार्थनिमित्तकस्य वस्तुतस्सत्त्वेपि शब्देनार्थस्येतरभिन्नत्वेनाभिधानस्याभावे ज्ञानगतवैलक्षण्यस्यानभिधानम् । घटज्ञानं वस्तुतः पटज्ञानाद्भिन्नं यद्यपि , तथापि घटशब्देन पटादिभिन्नत्वेन घटस्यानभिधाने घटज्ञानगतवैलक्षण्यस्याप्यनभिधानम् । ज्ञानगतवैलक्षण्यस्यार्थात्मकत्वात् । इति मूलस्यार्थः ।
टिप्पणी च -
इतरभिन्नत्वेनार्थानभिधाने ज्ञानभेदस्याप्यनभिधानाच्छब्दे ज्ञानभेदवाचकत्वं नास्ति - इतिपरा ।
ननु कस्यैतन्मतं यज्ज्ञानभेदोपि शब्दस्य वाच्य एव , यन्निराक्रियतेऽत्र इति ।
 
अर्थभेदाभिधाने वा तत एव सिद्धेस्तदभिधानानुपपत्तेः ,

पदेनेतरभिन्नतयार्थाभिधानस्वीकारे तु ज्ञानभेदस्यार्थभेदाभिधानेनैव सिद्धत्वात् , ज्ञानभेदस्य शब्देनाभिधानं न स्वीकार्यम् । अनन्यलभ्यस्यैव शब्दार्थत्वात् ।
अत्रैषा टिप्पणी - अर्थानामिव तत्तदर्थगतवैलक्षण्यस्यापि वाच्यत्वाङ्गीकारे तावन्मात्रेण शक्त्यैवेतरव्यावृत्ततत्तदर्थविषयकशाब्दधिय उपपादयितुं शक्यतया , अन्वयांशे पदवाच्यताभ्युपगमवैयर्थ्यात् , -इति  कथमन्वीयात् ।

तद्धेतुतया तु तत्कल्पने ताल्वादिव्यापारस्यापि वाच्यत्वप्रसङ्गात् ,

ज्ञानभेदसाधकत्वेन तु शब्दकल्पने । अन्यलभ्यस्यापि ज्ञानभेदस्यार्थभेदकत्वेन वाच्यत्वस्वीकारे इत्यर्थः । ताल्वादिव्यापारस्याप्यर्थभेदकस्य वाच्यत्वप्रसङ्गः ।
अत्र टिप्पणी -
अर्थगतवैलक्षण्यबोधस्य त्वन्वयप्रयोज्यत्वमात्रेण स्वरूपतोऽर्थाभेदात्तद्वैलक्षण्यनिर्वाहकान्वयांशस्यापि वाच्यत्वाभ्युपगमे भिन्नभिन्नार्थबोधकारणीभूतपदप्रत्यक्षकारणपदोच्चारणकुक्षिप्रविष्टताल्वादिव्यापारस्यापि परम्परयेतरव्यावृत्तार्थबोधं प्रत्युपयोगित्वेनानिष्टस्य वाच्यत्वस्यापत्तेः , -  इति मदीयां मतिमतीत्यैव स्थिता ।

स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"

किमेतत्स्वाभाविकत्वं नाम पदतदर्थयोस्सम्बन्धस्य । कथं वैतदुपपन्नं , नूतनवस्तूनां नूतनशब्देनाभिधाने स्वाभाविकत्वस्य वक्तुमयुक्तत्वात् । अनादित्वमपि कथं येन मीमांसकैरुपपाद्यते एतत् ।

narayanan er

unread,
Dec 27, 2011, 6:03:58 AM12/27/11
to BHARATIYA VIDVAT
2011/12/17 श्रीमल्ललितालालितः <lalitaalaalitah@lalitaalaalitah.com>
स्वाभाविकश्शब्दार्थयोस्सम्बन्ध - इति स्थितिः ।"

किमेतत्स्वाभाविकत्वं नाम पदतदर्थयोस्सम्बन्धस्य । कथं वैतदुपपन्नं , नूतनवस्तूनां नूतनशब्देनाभिधाने स्वाभाविकत्वस्य वक्तुमयुक्तत्वात्।

वाचकत्वं हि शब्दविशेषस्य नियत आत्मा। सङ्केतव्युत्पत्तिकालादारभ्य वाचकत्वाविनाभावेन शब्दविशेषस्य प्रसिद्धत्वात्। स्वाभिप्रायगमकचेष्टाविशेषः सङ्केतः प्रज्ञप्तिर्वा। असङ्केतितं न किमपि पदमर्थस्य वाचकम्। उपपत्तिस्तु स्वाभिप्रायगमकचेष्टाविशेषत्वबलेन पदानां वाचकत्वकल्पनया। नूतनवस्तूनामपि सामग्रीवैचित्र्यादर्थान्तरावगतिः, स्वाभाविकत्वेऽपि न काचिदयुक्तिः, वाच्यस्य वाऽर्थान्तरस्य वा विवक्षया तत्तदर्थावबोधः।




subrahmanyam korada

unread,
Dec 30, 2011, 9:58:44 AM12/30/11
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः
 
इदमत्रावधेयम् --

संदर्भस्य अस्य मूलम्  इदम् जैमिनिसूत्रम् (1-1-5) --

औत्पत्तिकस्तु  शब्दस्यार्थेन  सम्बन्धः तस्य  ज्ञानमुपदेशः अव्यतिरेकश्चार्थे  अनुपलब्धे तत् प्रमाणम् बादरायणस्यानपेक्षत्वात्।

शबरस्वामी तावत् सूत्रमिदं व्याख्याय ’वृत्तिकारस्तु अन्यथेमं ग्रन्थं ( त्रिसूत्रीम्) वर्णयांचकार’ इति वदन् उपवर्षाचार्यमतेन बौद्धमतखण्डनपूर्वकं(स्फोटाद्यपि) वेदस्य (शब्दस्य)अपौरुषेयतां प्रत्यक्षादिप्रमणानपेक्षां च प्रतिपादयामास (तस्य निमित्तपरीष्टिः - इति सूत्रे नञ् अध्याहृतः वृत्तिकारेण - यथा माध्वैः अतत्त्वमसि इत्युच्यते) ।

तत्र योगाचाराः - स्वप्नज्ञानवत् सर्वाणि ज्ञानानि ( यथार्थज्ञानानि मिथ्याज्ञानानि च) स्वप्नज्ञानवत् निरालम्बनानि(वस्तुशून्यानि) , यथा स्वप्ने विना वस्तूनि ज्ञानानि भवन्ति तथा जाग्रदवस्थायामपि स्तम्भकुड्यकुसूलादिज्ञानानि वस्तुशून्यानि भवन्ति ( जाग्रत्कालीनप्रत्ययाः निरालम्बनाः , प्रत्ययत्वात् , स्वाप्नप्रत्ययवत् -इत्यनुमानम् प्रमाणम्) - इति वदन्ति । 

वैभाषिकाश्च ’ ज्ञानभिन्नं वस्तु न प्रमाणसिद्धम् ’ इति वदन्ति (घटः विषयतासम्बन्धेन ज्ञानविशिष्टः , स्वरूपसम्बन्धेन ज्ञाततावत्त्वात् - इत्यनुमनेन खण्डनम्) ।
आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥
विषयत्वमनापन्नैः सब्दैर्नार्थः प्रकाशते । 
न सत्तयैव ते’र्थानाम् अगृहीताः प्रकाशकाः॥
(विषयत्वम् = ज्ञाने विषयभावम् , अगृहीताः = अज्ञाताः)
अतो’निर्ज्ञातरूपत्वात् किमाहेत्यभिधीयते ।
नेंद्रियाणां प्रकाश्ये’र्थे  स्वरूपं गृह्यते तथा ॥(वाक्यपदीयम् 1-50,56,57)

यदि शब्दार्थयोः सम्बन्धारम् अङ्गीकुर्युः मीमांसकाः
तर्हि वेदानां पौरुषेयत्वमापद्येत , ततश्च भर्तृमित्रादीनां 
मतस्य लोकायतस्य प्राबल्यं भवेत् ( प्रायेणैव हि मीमांसा लोके लोकायती कृता - श्लोकवार्तिकारम्भे कुमारिलः)। तस्मात् शब्दार्थयोः सम्बन्धस्य अनादित्वं साध्यते --
अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति । कथं पुनरिदमवग्म्यते - अपौरुषेय एष सम्बन्ध इति ? पुरुषस्य सम्बन्धुरभावात् । कथं सम्बन्धा नास्ति ? प्रत्यक्षस्य प्रमाणस्य अभावात् , तत्पूर्वकत्वाच्चेतरेषाम्
(शाबरभाष्यम् 1-1-5)

बृहती (प्रभाकरस्य) - वृद्धव्यवहारस्य अनादिताभिधानोपन्यासो’यम् ।... अनादिनापि वृद्धव्यवहारेण शब्दादर्थावगमसिद्धौ यत्र कर्ता उपलभ्यते , तत्रादिमत्तैव उपलब्धिबलात् प्राप्नोति ’वृद्धिरादैच्’ इतिवत् । तस्मात् कर्तुः उपलम्भो निराकरणीयः ।

पञ्चिका (शालिकनाथः) - यदि हि सम्बन्धः कृतकः तदा सम्बन्धोत्तरकालभाविनो वेदा अपि कृतका एव ..।

श्लोकवार्तिकम् - शब्दनित्यताधिकरणम्(1,5) - न्यायरत्नकरव्याख्या पार्थसारथिमिश्रस्य) --

यद्यनित्यत्वपक्षे’पि शब्दादर्थो’वगम्यते ।
अनादिर्व्यवहारश्च नित्यत्वं किं नु साध्यते ॥
व्यवहारानदित्वम् असति शब्दनित्यत्वे अनुपपन्नम् इत्याह ख्येयमन्तेन --
अनादिव्यवहारत्वम् आदिमद्  वस्तुसंश्रयम् ।
प्रत्याख्येयम् .....॥
श्लोक. सम्बन्धाक्षेपवादः (4,5)-
सम्बन्धो’स्ति च नित्यश्चेत्युक्तमौत्पत्तिकादिना ।
मिथ्यात्वस्य निरासार्थं तत्परैर्नेष्यते द्वयम्॥
नैव चास्त्यत्र सम्बन्धः कृतको वेति वक्ष्यते ।

अद्वैतसिद्धिः (उपजीव्यत्वेन प्रत्यक्षप्राबल्यनिराकारः)-

एतेन शब्दे’पि योग्यतासमसत्ताकेन शब्दार्थेन भवितव्यम् ।
नूतनसंज्ञानां विषये (संगणक इत्यादि) --

मञ्जूषा --

 देशभाषानुसारेण कृतनां कूची मञ्ची आप्यकोण्डेत्यादिनाम्नामसाधुत्वमेव । टिघुभादिसंज्ञानां तु शिष्टप्रयुक्तत्वात् साधुत्वमेव । .. पाणिन्युपदेशादिरूपसङ्केतग्राह्यत्वात् तत्संज्ञात्वस्य संज्ञानामनित्यत्वव्यवहारो’पि । वाचकताबोधकत्वे’पि तदनुत्पादकत्वात्  न शब्दार्थसंबन्धनित्यताहानिः।...वेदमात्रप्रसिद्धस्द्शब्दभिन्नत्वरूपलौकिकत्वात् साधुत्वाच्च तेषां शास्त्रविषयता ।

अयमत्र सिद्धान्तः - गणकादिशब्दानाम् व्याकरणविषयत्वं वर्तते , अर्थस्तु अस्माभिः निर्णीयते इति न काचन अनुपपत्तिः । अत्र स्वाभाविकत्वं नास्ति , नेष्यते च । ऋष्यार्यम्लेच्छानाम् शब्दानाम् अर्थबोधकत्वम् अक्षतमेव । व्याकरणविषयत्वम् अस्ति वा नास्ति वा इत्येव विशेषः ।
धन्यो’स्मि

2011/12/27 narayanan er <drerna...@yahoo.com>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

श्रीमल्ललितालालितः

unread,
Dec 30, 2011, 11:26:28 AM12/30/11
to bvpar...@googlegroups.com



2011/12/30 subrahmanyam korada <kora...@gmail.com>


औत्पत्तिकस्तु  शब्दस्यार्थेन  सम्बन्धः

शब्दविशेषस्यार्थविशेषेण नित्यस्सम्बन्ध शब्दसामान्यस्य वार्थसामान्येन ।
नाद्यः । गणकपदस्य कदाचित्पुरुषेऽन्यदा च यन्त्रविशेषे व्यवहारसम्भवेन कतरेण तस्य नित्यस्सम्बन्ध इति निर्णेतुमशक्यत्वात् ।
नापरः । सर्वेषां शब्दानां सर्वेष्वर्थेषु व्यवहारादर्शनात् ।

शबरस्वामी तावत् सूत्रमिदं व्याख्याय ’वृत्तिकारस्तु अन्यथेमं ग्रन्थं ( त्रिसूत्रीम्) वर्णयांचकार’ इति वदन् उपवर्षाचार्यमतेन बौद्धमतखण्डनपूर्वकं(स्फोटाद्यपि) वेदस्य (शब्दस्य)अपौरुषेयतां प्रत्यक्षादिप्रमणानपेक्षां च प्रतिपादयामास (तस्य निमित्तपरीष्टिः - इति सूत्रे नञ् अध्याहृतः वृत्तिकारेण - यथा माध्वैः अतत्त्वमसि इत्युच्यते) ।

तत्र निमित्तसूत्रेण तावत्प्रतिज्ञातस्य चोदनाप्रामाण्यस्य परीक्षापदेशेन स्वतःप्रामाण्यं हेतुरित्युच्यते इति शास्त्रदीपिकाकारः ।
 
यदि शब्दार्थयोः सम्बन्धारम् अङ्गीकुर्युः मीमांसकाः
तर्हि वेदानां पौरुषेयत्वमापद्येत , ततश्च भर्तृमित्रादीनां 
मतस्य लोकायतस्य प्राबल्यं भवेत् ( प्रायेणैव हि मीमांसा लोके लोकायती कृता - श्लोकवार्तिकारम्भे कुमारिलः)।

वचोभ्ङ्ग्यैतत्प्रतीयते यन्मीमांसका न परीक्षकाः , अहेतुकमेव च तैरपौरुषेयत्वमभ्युपगतं , तद्रक्षणाय च व्यूहोऽयं रचितः । न चैतद्युक्तं , न्यायप्रियत्वस्य तैर्बहुधा ज्ञापितत्वात् ।
 
तस्मात् शब्दार्थयोः सम्बन्धस्य अनादित्वं साध्यते --
अपौरुषेयत्वात् सम्बन्धस्य सिद्धमिति । कथं पुनरिदमवग्म्यते - अपौरुषेय एष सम्बन्ध इति ? पुरुषस्य सम्बन्धुरभावात् । कथं सम्बन्धा नास्ति ? प्रत्यक्षस्य प्रमाणस्य अभावात् , तत्पूर्वकत्वाच्चेतरेषाम्
(शाबरभाष्यम् 1-1-5)

बृहती (प्रभाकरस्य) - वृद्धव्यवहारस्य अनादिताभिधानोपन्यासो’यम् ।... अनादिनापि वृद्धव्यवहारेण शब्दादर्थावगमसिद्धौ यत्र कर्ता उपलभ्यते , तत्रादिमत्तैव उपलब्धिबलात् प्राप्नोति ’वृद्धिरादैच्’ इतिवत् । तस्मात् कर्तुः उपलम्भो निराकरणीयः ।

पञ्चिका (शालिकनाथः) - यदि हि सम्बन्धः कृतकः तदा सम्बन्धोत्तरकालभाविनो वेदा अपि कृतका एव ..।

सत्यम् । तथा चोक्तं पार्थसारथिभिः -
त्रेधा ह्यत्र पुरुषानुप्रवेशः पदपदार्थसम्बन्धद्वारेण वाक्यवाक्यार्थसम्बन्धद्वारेण ग्रन्थस्यैव वा भारतादिवत्पौरुषेयत्वात् । न त्वेतत्त्रयमप्यस्ति । पदपदार्थसम्बन्धस्य नित्यत्वमत्रौत्पत्तिकशब्देनोक्तम् । इति ।
 
श्लोकवार्तिकम् - शब्दनित्यताधिकरणम्(1,5) - न्यायरत्नकरव्याख्या पार्थसारथिमिश्रस्य) --

यद्यनित्यत्वपक्षे’पि शब्दादर्थो’वगम्यते ।
अनादिर्व्यवहारश्च नित्यत्वं किं नु साध्यते ॥
व्यवहारानदित्वम् असति शब्दनित्यत्वे अनुपपन्नम् इत्याह ख्येयमन्तेन --
अनादिव्यवहारत्वम् आदिमद्  वस्तुसंश्रयम् ।
प्रत्याख्येयम् .....॥

यस्य शब्दस्य यस्मिन्नर्थेऽनादिव्यवहारो दृश्यते , तस्य तेन स्यान्नित्यस्सम्बन्धः । तथापि व्यवहारस्य नित्यत्वमेव कथं साध्यते , कल्पादीनां पुराणादिप्रामाण्यात्सिद्धेः ।
भवतु वा कथञ्चिज्जगतोऽनादित्वम् । तथापि कथं सङ्गणकादेस्तद्विषयकशब्दव्यवहारस्य च तद्वक्तुं शक्यते । लोकविरोधात् ।
एवञ्च शब्दार्थयोस्सम्बन्धस्य नियतता भग्नेति चेत् ।
 
नूतनसंज्ञानां विषये (संगणक इत्यादि) --

मञ्जूषा --

 देशभाषानुसारेण कृतनां कूची मञ्ची आप्यकोण्डेत्यादिनाम्नामसाधुत्वमेव ।

असाधुशब्दानां किं बोधकत्वमेव नास्तीत्युच्यते नित्यसम्बन्धाभावो वा ज्ञाप्यते ।
नाद्यः । लोकविरोधात् ।
न द्वितीयः । तथात्वे केषाञ्चिदेव शब्दानामौत्पत्तिकसम्बन्धसिद्धेस्सूत्रे शब्दसामान्यगोचरशब्दशब्दप्रयोगस्यानौचित्यात् ।

टिघुभादिसंज्ञानां तु शिष्टप्रयुक्तत्वात् साधुत्वमेव । .. पाणिन्युपदेशादिरूपसङ्केतग्राह्यत्वात् तत्संज्ञात्वस्य संज्ञानामनित्यत्वव्यवहारो’पि ।

शब्दविशेषेऽनित्यसम्बन्धस्वीकारस्सूत्रविरुद्धस्स्यात् । सूत्रस्य च सर्वथा लोकव्यवहारविरुद्धत्वमस्त्येव ।
 
वाचकताबोधकत्वे’पि तदनुत्पादकत्वात्  न शब्दार्थसंबन्धनित्यताहानिः।

एतेन प्रतीयते यत् - टिघ्वादिष्वपि सम्बन्धस्य नित्यत्वमेव स्वीकृतं , स च साद्युपदेशविषयत्वेन सादिरित्युच्यते ।
तत्रैतद्वक्तव्यं - सम्बन्धस्य नित्यत्वं नाम किम् । सम्बन्धश्च किमर्थविशेषनिरूपितो न वा । आद्ये , शब्दानामनेकार्थवाचित्वानुपपत्तिः । अपरे सर्वेषां सर्वाभिधायकत्वम् ।
 
...वेदमात्रप्रसिद्धस्द्शब्दभिन्नत्वरूपलौकिकत्वात् साधुत्वाच्च तेषां शास्त्रविषयता ।

साधुशब्दानामेव संस्कृतव्याकरणविषयता । ते च द्विविधाः - वैदिकाः शिष्टप्रयुक्तलौकिकाश्च । इतरेषां न सा । इति प्रतीयते ।
शास्त्रविषयत्वेन किं शब्दानां नित्यसम्बन्धसाधने कश्चिदुपकारो येन तदुक्तम् ।
 
अयमत्र सिद्धान्तः - गणकादिशब्दानाम् व्याकरणविषयत्वं वर्तते , अर्थस्तु अस्माभिः निर्णीयते इति न काचन अनुपपत्तिः । अत्र स्वाभाविकत्वं नास्ति , नेष्यते च ।

शब्दस्यार्थेन नित्यो न सम्बन्ध इत्येव साधितं भवता ।
 
ऋष्यार्यम्लेच्छानाम् शब्दानाम् अर्थबोधकत्वम् अक्षतमेव । व्याकरणविषयत्वम् अस्ति वा नास्ति वा इत्येव विशेषः ।

भवतु । अर्थेन नित्यसम्बन्धो न वा बोधकत्वेऽपि ।

श्रीमल्ललितालालितः

unread,
Dec 30, 2011, 11:32:34 AM12/30/11
to bvpar...@googlegroups.com



2011/12/27 narayanan er <drerna...@yahoo.com>

वाचकत्वं हि शब्दविशेषस्य नियत आत्मा।

शब्दविशेषपदेन किं विवक्षितम् । वाचकमवाचकं वा । वाचके वाचकतेति तु न विप्रतिपन्ना । अतो न ज्ञापनीयापि । वाचकता नित्या न वेत्यत्र हि विप्रतिपत्तिः । सापि शब्दमात्रे न वा । अस्ति चेदप्यर्थविशेषनिरूपिता न वा ।

सङ्केतव्युत्पत्तिकालादारभ्य वाचकत्वाविनाभावेन शब्दविशेषस्य प्रसिद्धत्वात्।

व्युत्पत्तिकालात्प्रागबोधकत्वेन किमवाचकता स्वरूपं शब्दस्य कदाचिदिति साध्यते । तथात्वे पूर्ववाक्यविरोधः ।
 
स्वाभिप्रायगमकचेष्टाविशेषः सङ्केतः प्रज्ञप्तिर्वा। असङ्केतितं न किमपि पदमर्थस्य वाचकम्। उपपत्तिस्तु स्वाभिप्रायगमकचेष्टाविशेषत्वबलेन पदानां वाचकत्वकल्पनया।

बलमत्र प्रदर्शनीयं प्रकटं यतो न वयं रहस्यज्ञाः ।
 
नूतनवस्तूनामपि सामग्रीवैचित्र्यादर्थान्तरावगतिः, स्वाभाविकत्वेऽपि न काचिदयुक्तिः, वाच्यस्य वाऽर्थान्तरस्य वा विवक्षया तत्तदर्थावबोधः।

शब्दस्य वाचकत्वं स्वभावश्चेदपि तत्किमर्थमात्रनिरूपितमर्थविशेषनिरूपितं वा । आद्ये पदमात्रस्य सर्वार्थाभिधायकत्वम् । अन्त्ये बह्वर्थतानुपपत्तिः ।

subrahmanyam korada

unread,
Jan 12, 2012, 8:22:00 AM1/12/12
to bvpar...@googlegroups.com
नमो विद्वद्भ्यः

मीमांसकाः ’ परीक्षका एव ’ । तैरेव षड्विधः शब्दः , अष्टादशविधः अर्थश्च  लोकवेदशास्त्रॊपयोगिनौ  प्रदर्शितौ । ते हि न्यायविदः ।

सर्वे सर्वार्थवाचकाः
" --- मञ्जूषायामुक्तम् -
सर्वशब्दानां सर्वार्थवाचकत्वे ’पि वृद्धिरादैजित्यादीनाम् अज्ञातशक्तिज्ञापकसङ्केतरूपतयाविधित्वमेव । यत्तु 
व्यवहाराय नियमः संज्ञाया ः संज्ञिनि क्वचित् ।
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥
वृद्ध्यादीनां तु शास्त्रे’स्मिन् शक्त्यवच्छेदलक्षणः।
अकृत्रिमो’भिसम्बन्धो विशेषणविशेष्यवत् ॥ ( वाक्यपदीयम् - वाक्यकाण्डः)
इति , तत्र सङ्केते कृते तत्तत्सङ्केतज्ञानरूपप्रकरणवशात् तस्यैव उपस्थितिः नान्यस्य इति फलितनियमपरम् ।
तदेतद्विशेषणविशेष्यवदित्यनेन सूचितम् । ... पाणिन्युपदेशादिरूपसङ्केतग्राह्यत्वात् तत्संज्ञात्वस्य    
संज्ञानाम् अनित्यत्वव्यवहारः’पि । वाचकताबोधकत्वे’पि तदनुत्पादकत्वात् न शब्दार्थसंबन्धनित्यताहानिः। तेष्वेव वृद्धिपदवाच्यत्वोपदेशे वक्त्रिच्छाया एव नियमकत्वाच्च यदृच्छाशब्दत्वव्यवहारः ,  
 स्वेच्छया संज्ञाः क्रियन्ते इति च व्यवहारः । वेदमात्रप्रसिद्धशब्दभिन्नत्वरूपलौकिकत्वात् उक्तरीत्या साधुत्वाच्च तेषां शास्त्रविषयता । 
किंच सर्वेषां सर्वार्थवाचकत्वम् अस्माभिर्दुर्ज्ञेयं विशिष्यसकलार्थशब्दज्ञानाभावात् । सामान्यज्ञानं तु न बोधोपयोगि । योगिदृष्ट्या तु तथा व्यवहारः शास्त्रे । स्पष्टं चेदं सर्वम् ऋलृक्सूत्रे भाष्ये ।"

वृद्धिरादैच्सूत्रे भाष्ये, प्रदीपोद्योतयोश्च वरीवर्ति महती चर्चा अस्मिन् विषये ।

मीमांसकानां मते ’ सो’यम्  अकारः ’ इति प्रत्यभिज्ञानित्यत्वम् - औत्पत्तिकसूत्रे भाष्ये बृहत्याम् श्लोकवार्तिके च स्पष्टम् ।

वैयाकरणानां मते तु ( सिद्धे शब्दार्थसंबन्धे कैयटादौ) -कार्यशब्दिकानां प्रवाहनित्यता , जातिमाश्रित्य । वेदान्तिनये जातेरप्यनित्यत्वात् ( अग्नेः अग्नित्वम् अपागात् - छान्दोग्ये ) ब्रह्मरूपं द्रव्यमेव उपाध्यवच्छिन्नं स्वीक्रियते (वक्यपदीये  पदकाण्डे जतिसमुद्देशः , द्रव्यसमुद्देशश्च ) - कूटस्थनित्यता प्रवाहनित्यता वा ।

पस्पशायामेव भाष्यकारेणोक्तम् - सम्ग्रहे एतत् प्राधान्येन परीक्षितम् - नित्यो वा स्यात् कार्यो वेति , तत्र त्वेष निर्णयः , यद्यपि नित्यः अथापि कर्यः , उभयथापि शास्त्रं प्रव्र्त्यम् ।

दृष्टं साम - इति पाणिनिसूत्रम् । उच्चरितस्य शब्दस्य न नाशः । अत एव ऋषयः मन्त्रद्रष्टारः । इदानीन्तनकाले अस्माभिरपि वार्ताः 
श्रूयन्ते । हरिरपि वक्ति ( वाक्यप . ब्रह्म २८) -

नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते ।
प्राणिनामिव सा चैषा व्यवस्थानित्यतोच्यते ॥

व्यवस्थानित्यता = प्रवाहनित्यता ।

वेदान्तिभिरपि ’षडस्मकमनादयः ’ इति अङ्गीकृतम् ।



अनेकार्थत्वम् - दार्शनिकाः एतस्मिन् विषये विमतयः (वाक्य . ब्रह्म. ) -

कार्यत्वे नित्यतायां वा केचिदेकत्ववादिनः ।
कार्यत्वे नित्यतायां वा केचिन्नानात्ववादिनः ॥

एक एव शब्दः अनेकार्थान् अभिदधाति इति केचन , अन्ये तु ’प्रत्यर्थं शब्दनिवेशः’ , ’ सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति ’ इति  यावन्तश्शब्दाः तावन्तः अर्थाः इति वदन्ति । उभयोरपि नित्यकार्यविषये न आस्था ।

संपूर्णा चर्चा अस्मिन् विषये नात्र मास्यति ।

धन्यो’स्मि





2011/12/30 श्रीमल्ललितालालितः <lalitaa...@lalitaalaalitah.com>

--
अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि।।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः।। (भ.गी.)

श्रीमल्ललितालालितः

unread,
Jan 12, 2012, 9:17:38 AM1/12/12
to bvpar...@googlegroups.com
कृतज्ञोऽहम् ।
यद्यपि सर्वथाकरग्रन्था एवाश्रयत्वभाजस्तथापि प्रकरणविशेषो निबन्धविशेषो वात्र कश्चित्स्यादेव सहायकः । तथाविधः कश्चिद्ग्रन्थः केनचिद्दृष्टश्चेत्तन्नामादिप्रकटनमत्र मादृशानां बहूनामुपकाराय स्यात् ।

कथञ्चित् शब्दार्थसम्बन्धादीनामौत्पत्तिकत्वादेरभ्युपगमेऽपि तत्त्वबिन्दोरुद्धृतांशस्यार्थस्य स्पष्टमभानान्मन्ये ग्रन्थस्यास्य विज्ञातारो नात्र सन्ति इति ।
2012/1/12 subrahmanyam korada <kora...@gmail.com>
Reply all
Reply to author
Forward
0 new messages