तिरुप्पावै--------पाशुरम् ११-------अवधारयन्तु।
तमिळम्-----"कत्तुक्करवै क्कणङ्गळ् पल करन्दु,शेत्तार् तिरलळिय च्चेन्रु शेरुच्चेय्युम्
कुत्त मोन्रिल्लाद कोवलर् दम् पोर्कोडिये! पुत्तर वल् गुल् पुनमयिले पोदराय्!
शुत्तत्तु तोळिमारेल्लारुम् वन्दु; निन् मुत्तम् पुगुन्दु मुगिल् वण्णन् पेर्पाड
शित्तादे पेशादे शेल्वप्पेण्डाट्टि! नी एत्तुक्कुरङ्गुम् पोरुळेलोरेम्बावाय्॥"
संस्कृतम्-(श्लो)"सन्दुह्य धेनुसमजान् सुबहूनरीणां शुष्मं निहन्तुमभिगम्य मृथं विधातुः।
दोषेण केनचन ना न्वयिनस्तु गोप,लोकस्य हेमतिलके! विपिने मयूरि! ।।
वल्मीकवासि भुजगाभ नितम्बबिम्बे!! स्वागच्छ बान्धवसखीनिवहास्समेत्य,
गेहाङ्गणे विविशुरभ्रमनोज्ञमूर्तेः गायन्ति नाम किमचेष्टविभाषणासि?
अत्यर्थनित्यबहुसम्पदनर्घदाराः अद्यापि किं स्वपिषि? चिन्तयसि? प्रबोध।
ध्येयः फलं च करणं च स एव कृष्णः वृत्तं निसर्गमधुरं व्रतमस्मदीयम्॥
प्रतिपदार्धः :---"कत्तुक्करवै=वत्ससहितधेनूनां; पल=अनेक; कणङ्गळ्=श्रेणयः; करन्दु=दोग्धुमिच्छन्तः;शेत्तार्=शत्रूणां=तिरल्=बलं;अळिय=नाशयितुं;
शेन्रु=दण्डयात्राङ्कृत्वा; शेरुच्चेय्युं=योद्धुमनसः; कुत्तमोन्रु=ईषदपि दोषं;इल्लाद=विना;कोवलर् दम्=गोपालवंशे;पोर्कोडिये=स्वर्णलते:
पुत्तु=वल्मीकस्थित; अरवु=सर्पसदृश; अल् गुल्=नितम्बवति!;पुनमयिले=वनमयूरसदृशि!:शेल्वप्पेण्डाट्टि=सौभाग्यवति!;पोदराय्=
=आगच्छ: शुत्तत्तु=बन्धुसम्बन्धिन्यः;एल्लारुम्=सर्वाः=तोळिमार्=सख्यः;वन्दु=आगत्य;नी=तव;मुत्तम्=प्राङ्गणे;पुगुन्दु=प्रविश्य;
मुगिल् वण्णन्=मेघवर्णस्य(श्रीकृष्णस्य);पेर्=नामानि;पाड=गायन्त्यस्सन्ति(गायत्सु सत्सु);नी=त्वम्;शित्तादे=चेष्टारहितं;पेशादे=
भाषणरहितं;एत्तुक्कु=केन कारणेन;उरङ्गुम्=निद्राङ्गताऽसि:पोरुळ्=(एवंविधस्थितेः)कोऽर्थः?=को वा उद्देशः?
तात्पर्यम्:---अस्मिन् पाशुरे गोदादेवी श्रीकृष्णस्य सर्वधा समानस्थायिनीं गोपिकां सपरिवारं प्रबोधयत्येवम्।"गोपालवंशस्य स्वर्णलतिके! त्वद्वंशीयाः
गोसहस्रं दोग्धुं शक्ताः। शतृबलं निर्मूलयितुं योद्धुं च शक्ताः। निर्मलवर्तनाः। हे वनमयूरि! हे सौभाग्यवति! शयनादुत्तिष्ठ। आगच्छ। सख्यः
सर्वाः आगत्य तव प्राङ्गणे स्थिताः। श्रीकृष्णस्य नामानि कीर्तयन्ति। किं न चेष्टसे? किं न भाषसे? एतत्स्थितेः कोऽर्थः?"इति।
विशेषाः :---अत्र गावो नाम वेदाः। वत्सा नाम वेदाङ्गाः। दुग्धं नाम तेषां सारः। दोहनं नाम प्रापणम्। एतत्कार्यमाचार्याः कुर्वन्ति। शत्रवो नाम काम
क्रोधाद्यरिषड्वर्गः। आचार्याः छात्राणामरिषड्वर्गं निवर्तयित्वा सम्यक् ज्ञानमनुगृह्णन्ति खलु। वल्मीकस्थितो सर्पः मूलाधारे स्थिता
कुण्डलिन्येव। मयूरसदृशो केशपाशो नाम सहस्रारः। बन्धुवर्गः सख्यश्च भगवद्भक्ताः। भक्तानां पुरतः स्थितिरेव प्रयोजनम्। निद्रा नाम
भगवद्गुणानुसन्धानमेव। "भूतयोगी,सरोयोगी,महायोगी" इति आळ्वार् त्रयं, नाथमुनि,यामुनमुनि प्रभृत्त्याचार्याश्च स्मर्यन्तेऽत्र।
अभिवाद्य,
ऐवियन्।