Respected scholars,
I have gone through the pdf presented Professor Jagannatha. Excellent. Regarding the conjunct consonant क्ष the Sabdakalpadruma also shares a few idea about this. It is moreover inclined to the tantric utility rather than a grammatical peculiarity. The reasoning for the introduction of क्ष in alphabets by Professor Jagannatha is justifiable as far the Devanagari script practice is concerned. Regarding Grantha and Malayalam scripts no ambiguity in the shapes of the conjunct consonants of क्ष, त्र or ज्ञ. Here we see some of the Sabdakalpadruma entry regarding क्ष which is more inclined to the tantra concept:
क्ष। क्षकारः। अयन्तु
ककारषकारयोगेन जातः। अतोऽस्य पृथक् वर्णत्वशङ्का नास्त्येव। तन्त्रमते तु व्यञ्जनचतुस्त्रिंशवर्णः। अष्टमवर्गीयपञ्चमवर्णः। एकपञ्चाशन्मातृकावर्णानां चरमवर्णश्च। यथा-
''पञ्चाशल्लिपिभिर्माला विहिता सर्वकर्मसु।
अकारादिक्षकारान्ता वर्णमाला प्रकीर्तिता॥
क्षार्णं मेरु मुखं तत्र कल्पयेन्मुनिसत्तमः।
अनया सर्वमन्त्राणां जपः
सर्वसमृद्धिदः''॥ इति गौतमीयतन्त्रम्॥
कण्ठदेशोद्भवोऽयम्। यथा- श्रीशिव उवाच।
''विशेषं कथयाम्यद्य प्रोच्चार्याः कण्ठतः स्वराः।
ऋद्वयं जिह्वया मूर्द्ध्ना लृद्वयं
जिह्वदन्तजम्।
मुखस्थानाद्धलो वाच्याः क्षकारः कण्ठघातजः''॥
इति वरदातन्त्रे१० पटलः॥ अस्य स्वरूपं यथा-
''क्षकारं शृणु चार्वङ्गि! कुण्डलीत्रयसंयुतम्।
चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा।
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा॥
त्रिविन्दुसहितं वर्णमात्मादितत्त्वसंयुतम्।
शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि!''॥ इति कामधेनुतन्त्रम्॥
अस्याभिधानानि यथा-
''क्षः कोपस्तुम्बुकः कालो रूक्षः सम्बर्तकः परः।
नृसिंहो विद्युता माया महातेजा युगान्तकः॥
परात्मा क्रोधसंहारौ बलान्तो मेरुवाचकः।
सर्वाङ्गः सागरः कामः
संयोगान्त्यस्त्रिपूरकः॥
क्षेत्रपालो महाक्षोमो मातृकान्तानलः क्षयः।
मुखं कव्यवहानन्ता कालजिह्वा गणेश्वरः।
छायापुत्रश्च
संघातो मलयश्रीर्ललाटकः''॥
इति तन्त्रशास्त्रे वर्णाभिधानम्॥ अपि च।
''क्षकारो नरसिंहश्च मेरुः सम्बर्तकोऽपि च।
तव स्नेहान्मया देवि! कथितं मातृकाक्षरम्।
पर्यायैरपि विज्ञेयं न प्रकाश्यं कदाचन''॥ इति श्रीरुद्रयामले ८ पटले मन्त्राभिधानम्॥ अस्य ध्यानं यथा-
''चतुर्भुजां रक्तवर्णां शुक्लाम्बरविभूषिताम्।
रत्नालङ्कारसंयुक्तां वरदां पद्मलोचनाम्॥
ईशद्धास्यमुखीं लोलां रक्तचन्दनचर्चिताम्।
शदात्रीञ्च चतुर्वर्गप्रदां सौम्यां
मनोहराम्॥
गन्धर्वसिद्धदेवाद्यैर्ध्यातामाद्यां सुरेश्वरीम्।
एवं ध्यात्वा क्षकारन्तु तन्मन्त्रं दशधा जपेत्''॥ इति वर्णोद्धारतन्त्रम्॥ क्षकारस्य ककारषकारयोगजत्वेन कचित् पृथग्वर्णत्वेन न
मन्यन्ते। तेषां मते तन्त्रोक्तकपञ्चाशद्वर्णानुपपत्तिः तन्त्रशास्त्रे तस्य मरुत्त्वेन गणनानुपपत्तिश्च भवति। अतः पृथङ्निर्दिश्यते इति केचित्। तथा च।
''षान्ताः स्युर्यद्यपि क्षान्ता वर्णानामनुराधतः।
पृथक्क्रमेण कथ्यन्ते तथाप्येते समन्वयात्''॥ इति विश्वप्रकाशः॥ अपि च।
''अकारादिलकारान्ता वर्णाः पञ्चाशदीरिताः।
संयोगात् कषयोरेषः क्षकारो मेरुरीरितः''॥ इति
कृष्णानन्दधृततन्त्रशास्त्रम्॥
Regards,
Narayanan